व्य᳚ञ्जते दि॒वो अन्ते᳚ष्व॒क्तून्विशो॒ न यु॒क्ता उ॒षसो᳚ यतन्ते ।
सं ते॒ गाव॒स्तम॒ आ व᳚र्तयन्ति॒ ज्योति᳚र्यच्छन्ति सवि॒तेव᳚ बा॒हू ॥
सं ते॒ गाव॒स्तम॒ आ व᳚र्तयन्ति॒ ज्योति᳚र्यच्छन्ति सवि॒तेव᳚ बा॒हू ॥
पदपाठः (Word-by-word)
वि । अ॒ञ्ज॒ते॒ । दि॒वः । अन्ते᳚षु । अ॒क्तून् । विशः᳚ । न । यु॒क्ताः । उ॒षसः᳚ । य॒त॒न्ते॒ ।
सम् । ते॒ । गावः᳚ । तमः᳚ । आ । व॒र्त॒य॒न्ति॒ । ज्योतिः᳚ । य॒च्छ॒न्ति॒ । स॒वि॒ता॑इ᳚व । बा॒हू इति᳚ ॥
सम् । ते॒ । गावः᳚ । तमः᳚ । आ । व॒र्त॒य॒न्ति॒ । ज्योतिः᳚ । य॒च्छ॒न्ति॒ । स॒वि॒ता॑इ᳚व । बा॒हू इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उषसः अक्तून् तेजांसि दिवोन्तरिक्षस्यान्तेषु पर्यन्तप्रदेशेषु व्यञ्चते व्यक्तीकुर्वन्तीत्यर्थः युक्ताः परस्परं संयुक्ताः विशोन प्रजाइव सेनाइव यतन्ते प्रयतन्ते तमोनाशनायात्र गमनाय वा । अथ प्रत्यक्षवादः हे उषस्ते तव गावोरश्मयस्तमोन्धकारं समावर्तयन्ति नाशयन्ति ज्योतिस्तेजोयच्छन्ति प्रयच्छन्ति । सविता सूर्योबाहूइव ॥ २ ॥