श्रवणम्

7.79.3
अभू᳚दु॒षा इन्द्र᳚तमा म॒घोन्यजी᳚जनत्सुवि॒ताय॒ श्रवां᳚सि ।
वि दि॒वो दे॒वी दु᳚हि॒ता द᳚धा॒त्यङ्गि᳚रस्तमा सु॒कृते॒ वसू᳚नि ॥
▶ पदपाठः (Word-by-word)
अभू᳚त् । उ॒षाः । इन्द्र᳚॑तमा । म॒घोनी᳚ । अजी᳚जनत् । सु॒वि॒ताय᳚ । श्रवां᳚सि ।
वि । दि॒वः । दे॒वी । दु॒हि॒ता । द॒धा॒ति॒ । अङ्गि᳚रः॑तमा । सु॒॑कृते᳚ । वसू᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रतमा सर्वस्येश्वरतमा मघोनी धनवती उषा अभूत् प्रादुरभूत् सुविताय कल्याणाय श्रवांस्यन्नानि अजीजनत् उदपादयत् प्रकाशित् वतीत्यर्थः दिवोदुहिता देवीद्योतमाना अंगिरस्तमा गन्तृतमा यद्वा अङ्गिरोगोत्रैर्भरद्वाजैः सह रात्रेरप्युत्पत्तेः रात्र्यवसानस्योषारूप- त्वादङ्गिरस्तमेत्युच्यते भारद्वाजैरात्रेः सहोत्पत्तिरनुक्रमण्यामुक्ता रात्र्यवसानस्योषारूपत्वादङ्गिरस्तमेत्युच्यते भारद्वाजैरात्रैः सहोत्प- त्तिरनुक्रमण्यामुक्ता रात्रिःकुशिकः सौभरो रात्रिर्वाभारद्वाजीति तादृश्युषाः सुकृते यजमानाय वसूनि धनानि विदधाति करोति ॥ ३ ॥