सप्तमं मण्डलम् - सूक्तम् 98

7 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 7.98 - सम्पूर्णम्

1 / 7
ऋक्: 7.98.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.98.1
अध्व᳚र्यवो॑रु॒णं दु॒ग्धमं॒शुं जु॒होत᳚न वृष॒भाय᳚ क्षिती॒नाम् ।
गौ॒राद्वेदी᳚या{4} अव॒पान॒मिन्द्रो᳚ वि॒श्वाहेद्या᳚ति सु॒तसो᳚ममि॒च्छन् ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । अ॒रु॒णम् । दु॒ग्धम् । अं॒शुम् । जु॒होत᳚न । वृ॒ष॒भाय᳚ । क्षि॒ती॒नाम् ।
गौ॒रात् । वेदी᳚यान् । अ॒व॒॑पान᳚म् । इन्द्रः᳚ । वि॒श्वाहा᳚ । इत् । या॒ति॒ । सु॒त॑सो᳚मम् । इ॒च्छन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यवोध्वरस्यनेतारऋत्विजः क्षितीनां जनानां मध्ये वृषभाय श्रेष्ठायेन्द्राय अरुणमारोचमानं दुग्धं अभिषुतं अंशुं सोमं जुहोतन जुहुत अवपानं अवक्रम्यस्थितं दूरस्थं पातव्यं सोमं गौरात् गौरमृगादपि वेदीयान् अतिशयेन विद्वान् इन्द्रः सुतसोमं अभिषुतसोमं यजमानमिच्छन् अन्विच्छन् विश्वाहा विश्वान्यहानि इत् एव सर्वदैव याति गच्छति अतस्तस्माइन्द्राय सोमं जुहोतेत्यन्वयः ॥ १ ॥

7.98.2 समानपद
यद्द᳚धि॒षे प्र॒दिवि॒ चार्वन्नं᳚ दि॒वेदि᳚वे पी॒तिमिद᳚स्य वक्षि ।
उ॒त हृ॒दोत मन᳚सा जुषा॒ण उ॒शन्नि᳚न्द्र॒ प्रस्थि᳚तान्पाहि॒ सोमा᳚न् ॥
▶ पदपाठः (Word-by-word)
यत् । द॒धि॒षे । प्र॒॑दिवि᳚ । चारु᳚ । अन्न᳚म् । दि॒वे॑दि᳚वे । पी॒तिम् । इत् । अ॒स्य॒ । व॒क्षि॒ ।
उ॒त । हृ॒दा । उ॒त । मन᳚सा । जु॒षा॒णः । उ॒शन् । इ॒न्द्र॒ । प्र॑स्थि᳚तान् । पा॒हि॒ । सोमा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र प्रदिवि प्रगतेषु दिवसेषु पूर्वस्मिन्काले चारु शोभनं यत् सोमलक्षणमन्नं दधिषे पानेनोदरे धारयसि अस्य सोमस्य पीतिमित् पानमेव दिवेदिवे प्रतिदिवसं इदानीमपि वक्षि कामयसे वशकान्तावित्यस्य सिपि शपोलुकि षत्वकत्वषत्वेष्वेतद्रूपम् उतापिच हे इन्द्र त्दृदा त्दृदयेन उत शब्दश्चर्थे मनसा च जुषाणः सेवमानः उशन् अस्मान् कामयमानस्त्वं प्रस्थितान् पुरस्तान्नीतान् उत्तरवेदिस्थान् सोमान् पाहि पिब ॥ २ ॥

7.98.3 समानपद
ज॒ज्ञा॒नः सोमं॒ सह᳚से पपाथ॒ प्र ते᳚ मा॒ता म᳚हि॒मान᳚मुवाच ।
एन्द्र᳚ पप्राथो॒र्व१॒᳚न्तरि᳚क्षं यु॒धा दे॒वेभ्यो॒ वरि᳚वश्चकर्थ ॥
▶ पदपाठः (Word-by-word)
ज॒ज्ञा॒नः । सोम᳚म् । सह᳚से । प॒पा॒थ॒ । प्र । ते॒ । मा॒ता । म॒हि॒मान᳚म् । उ॒वा॒च॒ ।
आ । इ॒न्द्र॒ । प॒प्रा॒थ॒ । उ॒रु । अ॒न्तरि᳚क्षम् । यु॒धा । दे॒वेभ्यः᳚ । वरि᳚वः । च॒क॒र्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं जज्ञानोजायमानएव सहसे बलाय सोमं पपाथ पीतवानसि ते तव महिमानं महत्त्वं माता त्वदीया जननी अदितिः प्रोवाच प्रोक्तवती संवादसूक्ते अयंपन्थाइत्यादिके । नहीन्वस्येत्यर्धर्चादारभ्य अदित्याइन्द्रमहत्वस्योक्तत्वात् । अतः कारणात् हे इन्द्र त्वं उरु विस्तीर्णमन्तरिक्षं आपप्राथ स्वतेजसा आपूरितवानसि । अपिच युधा युद्धेन देवेभ्यः स्तोतृभ्योदेवेभ्यएववा वरिवोधनं चकर्थ कृतवानसि ॥ ३ ॥

7.98.4
यद्यो॒धया᳚ मह॒तो मन्य᳚माना॒न्त्साक्षा᳚म॒ तान्बा॒हुभि॒ः शाश᳚दानान् ।
यद्वा॒ नृभि॒र्वृत᳚ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ᳚श्रव॒सं ज᳚येम ॥
▶ पदपाठः (Word-by-word)
यत् । यो॒धयाः᳚ । म॒ह॒तः । मन्य᳚मानान् । साक्षा᳚म । तान् । बा॒हु॑भिः᳚ । शाश᳚दानान् ।
यत् । वा॒ । नृ॑भिः᳚ । वृतः᳚ । इ॒न्द्र॒ । अ॒भि॒॑युध्याः᳚ । तम् । त्वया᳚ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र महतः प्रभूतान् मन्यमानान् शत्रून्यद्यदा योधयाः अस्माभिर्योधयेः तैः सहयोद्धुं बलं प्रयच्छेरित्यर्थः तदानीं शाशदानान् हिंसत- स्तान् शत्रून् बाहुभिः आयुधनिरपेक्षैः हस्तैरेव त्वत्प्रसादात् साक्षाम सहेम अभिभवेम । यद्वा यदिवा हे इन्द्र नृभिः नेतृभिर्मरुद्भिर्वृतः त्वमेवाभियुध्याः अस्मदीयान् शत्रूनभियुध्यस्व सौश्रवसं यशोवा शोभनस्य श्रवसोहेतुं तमाजिं संग्रामं त्वया सहायेन वयं जयेम ॥ ४ ॥

7.98.5 समानपद
प्रेन्द्र᳚स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत᳚ना म॒घवा॒ या च॒कार᳚ ।
य॒देददे᳚वी॒रस᳚हिष्ट मा॒या अथा᳚भव॒त्केव᳚ल॒ः सोमो᳚ अस्य ॥
▶ पदपाठः (Word-by-word)
प्र । इन्द्र᳚स्य । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि᳚ । प्र । नूत᳚ना । म॒घ॑वा᳚ । या । च॒कार᳚ ।
य॒दा । इत् । अदे᳚वीः । अस᳚हिष्ट । मा॒याः । अथ᳚ । अ॒भ॒व॒त् । केव᳚लः । सोमः᳚ । अ॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रस्य कृतानि वीर्यकर्माणि प्रथमा प्रथमानि पुरातनानि प्रवोचं प्रब्रवीमि । मघवा धनवानिन्द्रः या यानि चकार कृतवान् नूतना नूतनान्यभिनवानिच तानि प्रवोचं यदेत् यदैव अदेवीः आसुरीर्मायाः तैः कृताः असहिष्ट अभ्यभूत् अथानन्तरमेव अस्येन्द्रस्य सोमः केवलः असाधारणो॓ऽभवत् तदा प्रभृत्येव सोमस्येन्द्रस्य चासाधारणः संबन्धोजातइत्यर्थः ॥ ५ ॥

7.98.6 समानपद
तवे॒दं विश्व᳚म॒भितः᳚ पश॒व्यं१॒᳚ यत्पश्य᳚सि॒ चक्ष᳚सा॒ सूर्य᳚स्य ।
गवा᳚मसि॒ गोप᳚ति॒रेक᳚ इन्द्र भक्षी॒महि᳚ ते॒ प्रय᳚तस्य॒ वस्व᳚ः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । इ॒दम् । विश्व᳚म् । अ॒भितः᳚ । प॒श॒व्य᳚म् । यत् । पश्य᳚सि । चक्ष᳚सा । सूर्य᳚स्य ।
गवा᳚म् । अ॒सि॒ । गो॑प᳚तिः । एकः᳚ । इ॒न्द्र॒ । भ॒क्षी॒महि᳚ । ते॒ । प्र॑य᳚तस्य । वस्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र पशव्यं पशवोद्विविधाः द्विपादश्चतुष्पादश्च तेभ्योहितं अभितः सर्वतोविद्यमानं इदं विश्वं सर्वं जगत् तव तवैव स्वभूतं सूर्यस्य प्रेरकस्यादित्यस्य चक्षसा तेजसा यद्विश्वं पश्यसि त्वं प्रकाशयसि अपिच हे इन्द्र एकएव त्वं गोपतिरसि नकेवलमेकस्याएव गोपतिः अपितु सर्वासामित्याह गवामिति अतः कारणात् ते त्वया प्रयतस्य प्रत्तस्य द्वितीयार्थेषष्ठी प्रत्तं वस्वोधनं भक्षीमहि भजेमहि ॥ ६ ॥

7.98.7
बृह᳚स्पते यु॒वमिन्द्र᳚श्च॒ वस्वो᳚ दि॒व्यस्ये᳚शाथे उ॒त पार्थि᳚वस्य ।
ध॒त्तं र॒यिं स्तु᳚व॒ते की॒रये᳚ चिद्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
बृह᳚स्पते । यु॒वम् । इन्द्रः᳚ । च॒ । वस्वः᳚ । दि॒व्यस्य᳚ । ई॒शा॒थे॒ इति᳚ । उ॒त । पार्थि᳚वस्य ।
ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये᳚ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्याख्यातेयं अक्षरार्थस्तु हे बृहस्पते त्वञ्चेन्द्रश्च युवां दिव्यस्य पार्थिवस्य चोभयविधस्य धनस्येश्वरौभवथः । तौ युवां स्तुवते स्तोत्रे धनं दत्तमिति ॥ ७ ॥

परोमात्रयेति सप्तर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं उरुंयज्ञायेत्याद्यास्तिस्रः ऎन्द्रावैष्णव्यः शिष्टाः केवलं विष्णुदेवतकाः तथाचानुक्रान्तम् परोवैष्णवंतूरुमित्यैंद्र्यश्चतिस्रइति । गतःसूक्तविनियोगः । विष्णुदेवताकेपशौ परोमात्रयेति पुरोडाशस्ययाज्या सूत्रितञ्च-परोमात्रयातन्वावृधानेरावतीधेनुमतीहिभूतमिति ।