सप्तमं मण्डलम् - सूक्तम् 35

15 ऋचः

ऋषिः: वसिष्ठः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 7.35 - सम्पूर्णम्

1 / 15
ऋक्: 7.35.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
7.35.1 समानपद
शं न᳚ इन्द्रा॒ग्नी भ᳚वता॒मवो᳚भि॒ः शं न॒ इन्द्रा॒वरु᳚णा रा॒तह᳚व्या ।
शमिन्द्रा॒सोमा᳚ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा᳚पू॒षणा॒ वाज᳚सातौ ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । इ॒न्द्रा॒ग्नी इति᳚ । भ॒व॒ता॒म् । अवः᳚॑भिः । शम् । नः॒ । इन्द्रा॒वरु᳚णा । रा॒त॑ह᳚व्या ।
शम् । इन्द्रा॒सोमा᳚ । सु॒वि॒ताय᳚ । शम् । योः । शम् । नः॒ । इन्द्रा᳚पू॒षणा᳚ । वाज᳚॑सातौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकमस्मभ्यं वा इन्द्राग्नी अवोभीरक्षणैः शंशांत्यै भवताम् । राहतव्या रातहव्यौ यजमानैर्दत्तहविष्काविन्द्रावरुणेन्द्रावरुणावपि नोस्मभ्यं शंशांत्यै भवताम् । इन्द्रासोमा इन्द्रासोमावपि नः शं शांत्यै सुविताय कल्याणाय च भवतां शं शांत्यै सुखाय च पुनरुक्तिरा- दरार्था अथवा शं शमनहेतुकं सुखं योः विषययोगनिमित्तं सुखमित्यपुनरुक्तिः । इन्द्रापूषणा इन्द्रापूषणावपि वाजसातौ युद्धे अन्नलाभे निमित्ते वा नः शं शांत्यै भवतामित्यर्थः ॥ १ ॥

7.35.2
शं नो॒ भग॒ः शमु᳚ न॒ः शंसो᳚ अस्तु॒ शं न॒ः पुरं᳚धि॒ः शमु᳚ सन्तु॒ रायः᳚ ।
शं नः᳚ स॒त्यस्य᳚ सु॒यम᳚स्य॒ शंस॒ः शं नो᳚ अर्य॒मा पु᳚रुजा॒तो अ᳚स्तु ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । भगः᳚ । शम् । ऊं॒ इति᳚ । नः॒ । शंसः᳚ । अ॒स्तु॒ । शम् । नः॒ । पुर᳚म्॑धिः । शम् । ऊं॒ इति᳚ । स॒न्तु॒ । रायः᳚ ।
शम् । नः॒ । स॒त्यस्य᳚ । सु॒॑यम᳚स्य । शंसः᳚ । शम् । नः॒ । अ॒र्य॒मा । पु॒रु॒॑जा॒तः । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं शं शांत्यै भगोदेवोस्तु भवतु नोस्माकं शमु शांत्यै एव शंसोनराशंसोस्तु भवतु नोस्माकं शं शांत्यै पुरंधिर्बहुधीरप्यस्तु रायोध- नान्यपिशमु शांत्यै एव सन्तु नोस्माकं सुयमस्य शोभनयमयुक्तस्य सत्यस्य शंसोवचनमपि शमस्तु नोस्माकं शं शांत्यै पुरुजातोबहुप्रादु- र्भावोर्यमादेवोप्यस्त ॥ २ ॥

7.35.3
शं नो᳚ धा॒ता शमु᳚ ध॒र्ता नो᳚ अस्तु॒ शं न᳚ उरू॒ची भ᳚वतु स्व॒धाभि᳚ः ।
शं रोद᳚सी बृह॒ती शं नो॒ अद्रि॒ः शं नो᳚ दे॒वानां᳚ सु॒हवा᳚नि सन्तु ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । धा॒ता । शम् । ऊं॒ इति᳚ । ध॒र्ता । नः॒ । अ॒स्तु॒ । शम् । नः॒ । उ॒रू॒ची । भ॒व॒तु॒ । स्व॒धाभिः᳚ ।
शम् । रोद᳚सी॒ इति᳚ । बृ॒ह॒ती इति᳚ । शम् । नः॒ । अद्रिः᳚ । शम् । नः॒ । दे॒वाना᳚म् । सु॒॑हवा᳚नि । स॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं शं शांत्यै धातादेवोस्तु नोस्माकं शमु शांत्यै एव विधार्ता पुण्यपापानां विधारयिता वरुणोदेवोप्यस्तु नोस्माकं शं शांत्यै उरूचीविवर्तगमनापृथिव्यपि स्वधाभिरन्नैः सहास्तु बृहतीमहत्यौ रोदसी द्यावापृथिव्यावपि शं भवतां अद्रिः पर्वतोपि नोस्माकं शं शांत्यै भवतु । शं शांत्यै नोस्माकंदेवानांसुहवानि सुष्टुतयःसन्तु भवन्तु ॥ ३ ॥

7.35.4
शं नो᳚ अ॒ग्निर्ज्योति᳚रनीको अस्तु॒ शं नो᳚ मि॒त्रावरु᳚णाव॒श्विना॒ शम् ।
शं नः᳚ सु॒कृतां᳚ सुकृ॒तानि᳚ सन्तु॒ शं न᳚ इषि॒रो अ॒भि वा᳚तु॒ वातः᳚ ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । अ॒ग्निः । ज्योतिः᳚॑अनीकः । अ॒स्तु॒ । शम् । नः॒ । मि॒त्रावरु᳚णौ । अ॒श्विना᳚ । शम् ।
शम् । नः॒ । सु॒॑कृता᳚म् । सु॒॑कृ॒तानि᳚ । स॒न्तु॒ । शम् । नः॒ । इ॒षि॒रः । अ॒भि । वा॒तु॒ । वातः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ज्योतिरनीकोज्योतिर्मुखोग्निः नोस्माकं शं शांत्यै अस्तु भवतु मित्रावरुणा मित्रावरुणावपि नोस्माकं शं शांत्यै भवतां अश्विना अश्विनावपि शं भवतां सुकृतां पुण्यकर्मणां पुरुषाणां सुकृतानि पुण्यकर्माणि अपि नोस्माकं शं शांत्यै सन्तु भवंतु । इषिरोगमनशीलोपि वातोवायुरपि नोस्माकं शं शांत्यै अभिवातु ॥ ४ ॥

7.35.5
शं नो॒ द्यावा᳚पृथि॒वी पू॒र्वहू᳚तौ॒ शम॒न्तरि᳚क्षं दृ॒शये᳚ नो अस्तु ।
शं न॒ ओष᳚धीर्व॒निनो᳚ भवन्तु॒ शं नो॒ रज᳚स॒स्पति᳚रस्तु जि॒ष्णुः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । द्यावा᳚पृथि॒वी इति᳚ । पू॒र्व॑हू᳚तौ । शम् । अ॒न्तरि᳚क्षम् । दृ॒शये᳚ । नः॒ । अ॒स्तु॒ ।
शम् । नः॒ । ओष᳚धीः । व॒निनः᳚ । भ॒व॒न्तु॒ । शम् । नः॒ । रज᳚सः । पतिः᳚ । अ॒स्तु॒ । जि॒ष्णुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं शं शांत्यै द्यावापृथिवी द्यावापृथिव्यौ पूर्वहूतौ प्रथमाह्वाने भवतां अन्तरिक्षमपि नोस्माकं दृशये दर्शनाय शमस्तु नोस्माकं शंशांत्यै ओषधीरोषधयोपि भवन्तु वनिनोवृक्षाश्च शं भवन्तु जिष्णुः जयशीलो रजसोलोकस्य पतिरिन्दोपि नोस्माकं शं शांत्यै अस्तु ॥ ५ ॥

7.35.6
शं न॒ इन्द्रो॒ वसु᳚भिर्दे॒वो अ᳚स्तु॒ शमा᳚दि॒त्येभि॒र्वरु᳚णः सु॒शंसः᳚ ।
शं नो᳚ रु॒द्रो रु॒द्रेभि॒र्जला᳚ष॒ः शं न॒स्त्वष्टा॒ ग्नाभि᳚रि॒ह शृ᳚णोतु ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । इन्द्रः᳚ । वसु᳚॑भिः । दे॒वः । अ॒स्तु॒ । शम् । आ॒दि॒त्येभिः᳚ । वरु᳚णः । सु॒॑शंसः᳚ ।
शम् । नः॒ । रु॒द्रः । रु॒द्रेभिः᳚ । जला᳚षः । शम् । नः॒ । त्वष्टा᳚ । ग्नाभिः᳚ । इ॒ह । शृ॒णो॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवोद्योतनादिगुणयुक्तइन्द्रोवसुभिर्देवैः सार्धं नोस्माकं शंशांत्यै भवतु सुशंसः शोभनस्तुतिर्वरुणोदेवः आदित्येभिः आदित्यैर्देवैः सार्धं शं शांत्यै अस्तु भवतु जलाषः सुखरूपोरुद्रोदुःखद्रावकोदेवः रुद्रेभिः रुद्रैः सार्धं शं शांत्यै नोस्माकं भवतु इहयज्ञे त्वष्टादेवः ग्नाभिर्देवपत्नीभिः सार्धं नः शं शांत्यै भवतु इहयज्ञे नः स्तोत्रं शृणोतुच ॥ ६ ॥

7.35.7
शं न॒ः सोमो᳚ भवतु॒ ब्रह्म॒ शं न॒ः शं नो॒ ग्रावा᳚ण॒ः शमु᳚ सन्तु य॒ज्ञाः ।
शं न॒ः स्वरू᳚णां मि॒तयो᳚ भवन्तु॒ शं नः᳚ प्र॒स्व१॒᳚ः शम्व᳚स्तु॒ वेदि᳚ः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । सोमः᳚ । भ॒व॒तु॒ । ब्रह्म᳚ । शम् । नः॒ । शम् । नः॒ । ग्रावा᳚णः । शम् । ऊं॒ इति᳚ । स॒न्तु॒ । य॒ज्ञाः ।
शम् । नः॒ । स्वरू᳚णाम् । मि॒तयः᳚ । भ॒व॒न्तु॒ । शम् । नः॒ । प्र॒॑स्वः᳚ । शम् । ऊं॒ इति᳚ । अ॒स्तु॒ । वेदिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं शं शांत्यै सोमोदेवतारूपः भवतु ब्रह्म स्तोत्रमपि नोस्माकं शं शांत्यै भवतु ग्रावाणोभिषवसाधनभूताः पाषाणाअपि नोस्माकं शं शांत्यै भवन्तु यज्ञाश्च नः शमु शांत्यै एव सन्तु स्वरूणां यूपानां मितयः उन्मानान्यपि नोस्माकं शं शांत्यै भवन्तु प्रस्वः ओषधयोपि नोस्माकं शं शांत्यै भवन्तु वेदिरपि नः शमु शांत्यै एवास्तु ॥ ७ ॥

7.35.8
शं न॒ः सूर्य᳚ उरु॒चक्षा॒ उदे᳚तु॒ शं न॒श्चत᳚स्रः प्र॒दिशो᳚ भवन्तु ।
शं न॒ः पर्व᳚ता ध्रु॒वयो᳚ भवन्तु॒ शं न॒ः सिन्ध᳚व॒ः शमु᳚ स॒न्त्वापः᳚ ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । सूर्यः᳚ । उ॒रु॒॑चक्षाः᳚ । उत् । ए॒तु॒ । शम् । नः॒ । चत᳚स्रः । प्र॒॑दिशः᳚ । भ॒व॒न्तु॒ ।
शम् । नः॒ । पर्व᳚ताः । ध्रु॒वयः᳚ । भ॒व॒न्तु॒ । शम् । नः॒ । सिन्ध᳚वः । शम् । ऊं॒ इति᳚ । स॒न्तु॒ । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं शं शांत्यै सूर्यउरुचक्षाः विस्तीर्णतेजाः सन् उदेतु उदयं प्राप्नोतु । चतस्रः प्रदिशोमहादिशोपि नोस्माकं शं शांत्यै भवन्तु नोस्माकं शं शांत्यै पर्वताध्रुवयो ध्रुवाभवन्तु नोस्माकं शं शांत्यै सिन्धवोनद्योपि भवन्तु आपश्च नः शमु शांत्यै एव सन्तु ॥ ८ ॥

7.35.9
शं नो॒ अदि᳚तिर्भवतु व्र॒तेभि॒ः शं नो᳚ भवन्तु म॒रुतः᳚ स्व॒र्काः ।
शं नो॒ विष्णु॒ः शमु᳚ पू॒षा नो᳚ अस्तु॒ शं नो᳚ भ॒वित्रं॒ शम्व᳚स्तु वा॒युः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । अदि᳚तिः । भ॒व॒तु॒ । व्र॒तेभिः᳚ । शम् । नः॒ । भ॒व॒न्तु॒ । म॒रुतः᳚ । सु॒॑अ॒र्काः ।
शम् । नः॒ । विष्णुः᳚ । शम् । ऊं॒ इति᳚ । पू॒षा । नः॒ । अ॒स्तु॒ । शम् । नः॒ । भ॒वित्र᳚म् । शम् । ऊं॒ इति᳚ । अ॒स्तु॒ । वा॒युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितिर्देवी व्रतेभिर्व्रतैः कर्मभिः सार्धं नोस्माकं शं शांत्यै भवतु स्वर्काः शोभनस्तुतयोमरुतोपि नोस्माकं शं शांत्यै सन्तु विष्णुः व्यापकः नोस्माकं शं शांत्यै अस्तु पूषादेवोपि नोस्माकं शमु शांत्यै एवास्तु भवित्रं भूवनमन्तरिक्षं उदकंवा नोस्माकं शं शांत्यै अस्तु वायुरपि नः शमु शांत्यै एवास्तु ॥ ९ ॥

7.35.10
शं नो᳚ दे॒वः स᳚वि॒ता त्राय᳚माण॒ः शं नो᳚ भवन्तू॒षसो᳚ विभा॒तीः ।
शं नः᳚ प॒र्जन्यो᳚ भवतु प्र॒जाभ्य॒ः शं न॒ः क्षेत्र᳚स्य॒ पति᳚रस्तु श॒म्भुः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । दे॒वः । स॒वि॒ता । त्राय᳚माणः । शम् । नः॒ । भ॒व॒न्तु॒ । उ॒षसः᳚ । वि॒॑भा॒तीः ।
शम् । नः॒ । प॒र्जन्यः᳚ । भ॒व॒तु॒ । प्र॒॑जाभ्यः᳚ । शम् । नः॒ । क्षेत्र᳚स्य । पतिः᳚ । अ॒स्तु॒ । श॒म्॑भुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवः क्रीडनादिगुणयुक्तः सविता त्रायमाणो रक्षन् नोस्माकं शं शांत्यै भवतु विभातीर्व्युच्छंत्यःउषसोपिनोस्माकंशं शांत्यै भवन्तु नोस्माकं प्रजाभ्यः पर्जन्योपि शं भवतु शंभुः सुखस्यभावयिता क्षेत्रस्य पतिर्नोस्माकं शं शांत्यै अस्तु ॥ १० ॥

7.35.11
शं नो᳚ दे॒वा वि॒श्वदे᳚वा भवन्तु॒ शं सर᳚स्वती स॒ह धी॒भिर᳚स्तु ।
शम᳚भि॒षाच॒ः शमु᳚ राति॒षाच॒ः शं नो᳚ दि॒व्याः पार्थि᳚वा॒ः शं नो॒ अप्या᳚ः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । दे॒वाः । वि॒श्व॑दे᳚वाः । भ॒व॒न्तु॒ । शम् । सर᳚स्वती । स॒ह । धी॒भिः । अ॒स्तु॒ ।
शम् । अ॒भि॒॑साचः᳚ । शम् । ऊं॒ इति᳚ । रा॒ति॒॑साचः᳚ । शम् । नः॒ । दि॒व्याः । पार्थि᳚वाः । शम् । नः॒ । अप्याः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वदेवा बहुस्तोत्रकादेवाः नोस्माकं शं शांत्यै भवन्तु सरस्वतीच धीभिः स्तुतिभिः कर्मभीर्वा सह नोस्माकं शं शांत्यै अस्तु अभीषाचो- यज्ञमभितः सेवमानाश्च नः शं शांत्यै भवन्तु रातिषाचो दानं सेवमानाअपि शमु शांत्यै एव भवन्तु दिव्यादिविभवाश्च नोस्माकं शं शांत्यै भवन्तु पार्थिवाः पृथिव्यां संभूताश्च नः शं भवन्तु अप्या अप्स्वंतरिक्षेभवाश्च आकाशं आपइयन्तरिक्षनामसु पाठात् नोस्माकं शं शांत्यै भवन्तु ॥ ११ ॥

7.35.12
शं नः᳚ स॒त्यस्य॒ पत᳚यो भवन्तु॒ शं नो॒ अर्व᳚न्त॒ः शमु᳚ सन्तु॒ गावः᳚ ।
शं न᳚ ऋ॒भवः᳚ सु॒कृतः᳚ सु॒हस्ता॒ः शं नो᳚ भवन्तु पि॒तरो॒ हवे᳚षु ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । स॒त्यस्य᳚ । पत᳚यः । भ॒व॒न्तु॒ । शम् । नः॒ । अर्व᳚न्तः । शम् । ऊं॒ इति᳚ । स॒न्तु॒ । गावः᳚ ।
शम् । नः॒ । ऋ॒भवः᳚ । सु॒॑कृतः᳚ । सु॒॑हस्ताः᳚ । शम् । नः॒ । भ॒व॒न्तु॒ । पि॒तरः᳚ । हवे᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्यस्य पतयः पालकाः सत्यशीलादेवानोस्माकं शं शांत्यै भवंतु अर्वन्तोश्वाश्चनोस्माकं शं शांत्यै भवन्तु गावोपि नः शं शांत्यै सन्तु भवन्तु सुकृतः सुकर्माणः सुहस्ताः शोभनहस्ताः ऋभवोपि नोस्माकं शं शांत्यै सन्तु हवेषु स्तोत्रेषु सत्सु पितरोपि नोस्माकं शं शांत्यै भवन्तु ॥ १२ ॥

7.35.13
शं नो᳚ अ॒ज एक᳚पाद्दे॒वो अ᳚स्तु॒ शं नो॑हि᳚र्बु॒ध्न्य१॒᳚ः शं स᳚मु॒द्रः ।
शं नो᳚ अ॒पां नपा᳚त्पे॒रुर᳚स्तु॒ शं न॒ः पृश्नि᳚र्भवतु दे॒वगो᳚पा ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । अ॒जः । एक᳚॑पात् । दे॒वः । अ॒स्तु॒ । शम् । नः॒ । अहिः᳚ । बु॒ध्न्यः᳚ । शम् । स॒मु॒द्रः ।
शम् । नः॒ । अ॒पाम् । नपा᳚त् । पे॒रुः । अ॒स्तु॒ । शम् । नः॒ । पृश्निः᳚ । भ॒व॒तु॒ । दे॒व॑गो᳚पा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अजएकपात् अजएकपान्नामधेयो देवोनोस्माकं शं शांत्यै अस्तु अहिर्बुध्नयश्च नोस्माकं शं शांत्यै अस्तु समुद्रोपि नः शं शांत्यै अस्तु पेरुः उपद्रवेभ्यः पारयिता अपांनपात् अपांनपान्नामधेयोपि देवोनोस्माकं शं शांत्यै अस्तु देवगोपा देवागोपायितारो यस्यांसापृश्निर्मरुतां माता नोस्माकं शं शांत्यै भवतु ॥ १३ ॥

7.35.14
आ॒दि॒त्या रु॒द्रा वस᳚वो जुषन्ते॒दं ब्रह्म᳚ क्रि॒यमा᳚णं॒ नवी᳚यः ।
शृ॒ण्वन्तु᳚ नो दि॒व्याः पार्थि᳚वासो॒ गोजा᳚ता उ॒त ये य॒ज्ञिया᳚सः ॥
▶ पदपाठः (Word-by-word)
आ॒दि॒त्याः । रु॒द्राः । वस᳚वः । जु॒ष॒न्त॒ । इ॒दम् । ब्रह्म᳚ । क्रि॒यमा᳚णम् । नवी᳚यः ।
शृ॒ण्वन्तु᳚ । नः॒ । दि॒व्याः । पार्थि᳚वासः । गो॑जा᳚ताः । उ॒त । ये । य॒ज्ञिया᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवीयोनवतरमस्माभिः क्रियमाणमिदं ब्रह्मस्तोत्रं आदित्यादिव्याः अदितिर्द्यौरितिश्रुतेः । रुद्राआन्तरिक्षाः वसवः पार्थिवाश्च जुषन्त जुषन्तां सेवन्तां अन्येच दिव्याः दिविभवाः पार्थिवासः पार्थिवाः गोजाताः गोः पृश्नेर्जाताः नाकः गौरिति साधारणनामसु पाठात् उतापिच ये यज्ञियासोयज्ञार्हाः ते सर्वेपि नोस्माकं हवं श्रृण्वन्तु ॥ १४ ॥

7.35.15
ये दे॒वानां᳚ य॒ज्ञिया᳚ य॒ज्ञिया᳚नां॒ मनो॒र्यज᳚त्रा अ॒मृता᳚ ऋत॒ज्ञाः ।
ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ये । दे॒वाना᳚म् । य॒ज्ञियाः᳚ । य॒ज्ञिया᳚नाम् । मनोः᳚ । यज᳚त्राः । अ॒मृताः᳚ । ऋ॒त॒॑ज्ञाः ।
ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒॑गा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञियानां यजनीयानां देवानामपि यज्ञियायजनीया मनोः प्रजापतेश्च यजत्रायजनीया अमृता मरणरहिता ऋतज्ञाः सत्यज्ञा ये देवाः सन्ति ते सर्वे उरुगायं बहुकीर्तिं पुत्रमद्य नोस्मभ्यं रासंतां प्रयच्छन्तु प्रसिद्धएवोत्तमः पादः ॥ १५ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पंचमाष्टके तृतीयोध्यायः समाप्तः ॥ ३ ॥