श्रवणम्

7.35.14
आ॒दि॒त्या रु॒द्रा वस᳚वो जुषन्ते॒दं ब्रह्म᳚ क्रि॒यमा᳚णं॒ नवी᳚यः ।
शृ॒ण्वन्तु᳚ नो दि॒व्याः पार्थि᳚वासो॒ गोजा᳚ता उ॒त ये य॒ज्ञिया᳚सः ॥
▶ पदपाठः (Word-by-word)
आ॒दि॒त्याः । रु॒द्राः । वस᳚वः । जु॒ष॒न्त॒ । इ॒दम् । ब्रह्म᳚ । क्रि॒यमा᳚णम् । नवी᳚यः ।
शृ॒ण्वन्तु᳚ । नः॒ । दि॒व्याः । पार्थि᳚वासः । गो॑जा᳚ताः । उ॒त । ये । य॒ज्ञिया᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवीयोनवतरमस्माभिः क्रियमाणमिदं ब्रह्मस्तोत्रं आदित्यादिव्याः अदितिर्द्यौरितिश्रुतेः । रुद्राआन्तरिक्षाः वसवः पार्थिवाश्च जुषन्त जुषन्तां सेवन्तां अन्येच दिव्याः दिविभवाः पार्थिवासः पार्थिवाः गोजाताः गोः पृश्नेर्जाताः नाकः गौरिति साधारणनामसु पाठात् उतापिच ये यज्ञियासोयज्ञार्हाः ते सर्वेपि नोस्माकं हवं श्रृण्वन्तु ॥ १४ ॥