शं न॒ इन्द्रो॒ वसु᳚भिर्दे॒वो अ᳚स्तु॒ शमा᳚दि॒त्येभि॒र्वरु᳚णः सु॒शंसः᳚ ।
शं नो᳚ रु॒द्रो रु॒द्रेभि॒र्जला᳚ष॒ः शं न॒स्त्वष्टा॒ ग्नाभि᳚रि॒ह शृ᳚णोतु ॥
शं नो᳚ रु॒द्रो रु॒द्रेभि॒र्जला᳚ष॒ः शं न॒स्त्वष्टा॒ ग्नाभि᳚रि॒ह शृ᳚णोतु ॥
पदपाठः (Word-by-word)
शम् । नः॒ । इन्द्रः᳚ । वसु᳚॑भिः । दे॒वः । अ॒स्तु॒ । शम् । आ॒दि॒त्येभिः᳚ । वरु᳚णः । सु॒॑शंसः᳚ ।
शम् । नः॒ । रु॒द्रः । रु॒द्रेभिः᳚ । जला᳚षः । शम् । नः॒ । त्वष्टा᳚ । ग्नाभिः᳚ । इ॒ह । शृ॒णो॒तु॒ ॥
शम् । नः॒ । रु॒द्रः । रु॒द्रेभिः᳚ । जला᳚षः । शम् । नः॒ । त्वष्टा᳚ । ग्नाभिः᳚ । इ॒ह । शृ॒णो॒तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
देवोद्योतनादिगुणयुक्तइन्द्रोवसुभिर्देवैः सार्धं नोस्माकं शंशांत्यै भवतु सुशंसः शोभनस्तुतिर्वरुणोदेवः आदित्येभिः आदित्यैर्देवैः सार्धं शं शांत्यै अस्तु भवतु जलाषः सुखरूपोरुद्रोदुःखद्रावकोदेवः रुद्रेभिः रुद्रैः सार्धं शं शांत्यै नोस्माकं भवतु इहयज्ञे त्वष्टादेवः ग्नाभिर्देवपत्नीभिः सार्धं नः शं शांत्यै भवतु इहयज्ञे नः स्तोत्रं शृणोतुच ॥ ६ ॥