श्रवणम्

7.35.10
शं नो᳚ दे॒वः स᳚वि॒ता त्राय᳚माण॒ः शं नो᳚ भवन्तू॒षसो᳚ विभा॒तीः ।
शं नः᳚ प॒र्जन्यो᳚ भवतु प्र॒जाभ्य॒ः शं न॒ः क्षेत्र᳚स्य॒ पति᳚रस्तु श॒म्भुः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । दे॒वः । स॒वि॒ता । त्राय᳚माणः । शम् । नः॒ । भ॒व॒न्तु॒ । उ॒षसः᳚ । वि॒॑भा॒तीः ।
शम् । नः॒ । प॒र्जन्यः᳚ । भ॒व॒तु॒ । प्र॒॑जाभ्यः᳚ । शम् । नः॒ । क्षेत्र᳚स्य । पतिः᳚ । अ॒स्तु॒ । श॒म्॑भुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवः क्रीडनादिगुणयुक्तः सविता त्रायमाणो रक्षन् नोस्माकं शं शांत्यै भवतु विभातीर्व्युच्छंत्यःउषसोपिनोस्माकंशं शांत्यै भवन्तु नोस्माकं प्रजाभ्यः पर्जन्योपि शं भवतु शंभुः सुखस्यभावयिता क्षेत्रस्य पतिर्नोस्माकं शं शांत्यै अस्तु ॥ १० ॥