श्रवणम्

7.35.12
शं नः᳚ स॒त्यस्य॒ पत᳚यो भवन्तु॒ शं नो॒ अर्व᳚न्त॒ः शमु᳚ सन्तु॒ गावः᳚ ।
शं न᳚ ऋ॒भवः᳚ सु॒कृतः᳚ सु॒हस्ता॒ः शं नो᳚ भवन्तु पि॒तरो॒ हवे᳚षु ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । स॒त्यस्य᳚ । पत᳚यः । भ॒व॒न्तु॒ । शम् । नः॒ । अर्व᳚न्तः । शम् । ऊं॒ इति᳚ । स॒न्तु॒ । गावः᳚ ।
शम् । नः॒ । ऋ॒भवः᳚ । सु॒॑कृतः᳚ । सु॒॑हस्ताः᳚ । शम् । नः॒ । भ॒व॒न्तु॒ । पि॒तरः᳚ । हवे᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्यस्य पतयः पालकाः सत्यशीलादेवानोस्माकं शं शांत्यै भवंतु अर्वन्तोश्वाश्चनोस्माकं शं शांत्यै भवन्तु गावोपि नः शं शांत्यै सन्तु भवन्तु सुकृतः सुकर्माणः सुहस्ताः शोभनहस्ताः ऋभवोपि नोस्माकं शं शांत्यै सन्तु हवेषु स्तोत्रेषु सत्सु पितरोपि नोस्माकं शं शांत्यै भवन्तु ॥ १२ ॥