श्रवणम्

7.35.3
शं नो᳚ धा॒ता शमु᳚ ध॒र्ता नो᳚ अस्तु॒ शं न᳚ उरू॒ची भ᳚वतु स्व॒धाभि᳚ः ।
शं रोद᳚सी बृह॒ती शं नो॒ अद्रि॒ः शं नो᳚ दे॒वानां᳚ सु॒हवा᳚नि सन्तु ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । धा॒ता । शम् । ऊं॒ इति᳚ । ध॒र्ता । नः॒ । अ॒स्तु॒ । शम् । नः॒ । उ॒रू॒ची । भ॒व॒तु॒ । स्व॒धाभिः᳚ ।
शम् । रोद᳚सी॒ इति᳚ । बृ॒ह॒ती इति᳚ । शम् । नः॒ । अद्रिः᳚ । शम् । नः॒ । दे॒वाना᳚म् । सु॒॑हवा᳚नि । स॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं शं शांत्यै धातादेवोस्तु नोस्माकं शमु शांत्यै एव विधार्ता पुण्यपापानां विधारयिता वरुणोदेवोप्यस्तु नोस्माकं शं शांत्यै उरूचीविवर्तगमनापृथिव्यपि स्वधाभिरन्नैः सहास्तु बृहतीमहत्यौ रोदसी द्यावापृथिव्यावपि शं भवतां अद्रिः पर्वतोपि नोस्माकं शं शांत्यै भवतु । शं शांत्यै नोस्माकंदेवानांसुहवानि सुष्टुतयःसन्तु भवन्तु ॥ ३ ॥