श्रवणम्

7.35.9
शं नो॒ अदि᳚तिर्भवतु व्र॒तेभि॒ः शं नो᳚ भवन्तु म॒रुतः᳚ स्व॒र्काः ।
शं नो॒ विष्णु॒ः शमु᳚ पू॒षा नो᳚ अस्तु॒ शं नो᳚ भ॒वित्रं॒ शम्व᳚स्तु वा॒युः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । अदि᳚तिः । भ॒व॒तु॒ । व्र॒तेभिः᳚ । शम् । नः॒ । भ॒व॒न्तु॒ । म॒रुतः᳚ । सु॒॑अ॒र्काः ।
शम् । नः॒ । विष्णुः᳚ । शम् । ऊं॒ इति᳚ । पू॒षा । नः॒ । अ॒स्तु॒ । शम् । नः॒ । भ॒वित्र᳚म् । शम् । ऊं॒ इति᳚ । अ॒स्तु॒ । वा॒युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितिर्देवी व्रतेभिर्व्रतैः कर्मभिः सार्धं नोस्माकं शं शांत्यै भवतु स्वर्काः शोभनस्तुतयोमरुतोपि नोस्माकं शं शांत्यै सन्तु विष्णुः व्यापकः नोस्माकं शं शांत्यै अस्तु पूषादेवोपि नोस्माकं शमु शांत्यै एवास्तु भवित्रं भूवनमन्तरिक्षं उदकंवा नोस्माकं शं शांत्यै अस्तु वायुरपि नः शमु शांत्यै एवास्तु ॥ ९ ॥