सप्तमं मण्डलम् - सूक्तम् 59

12 ऋचः

ऋषिः: वसिष्ठः देवता: मरुतः छन्दः: बृहती

सूक्तम् 7.59 - सम्पूर्णम्

1 / 12
ऋक्: 7.59.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
7.59.1
यं त्राय᳚ध्व इ॒दमि᳚दं॒ देवा᳚सो॒ यं च॒ नय᳚थ ।
तस्मा᳚ अग्ने॒ वरु᳚ण॒ मित्रार्य᳚म॒न्मरु᳚त॒ः शर्म᳚ यच्छत ॥
▶ पदपाठः (Word-by-word)
यम् । त्राय᳚ध्वे । इ॒दम्॑इ᳚दम् । देवा᳚सः । यम् । च॒ । नय᳚थ ।
तस्मै᳚ । अ॒ग्ने॒ । वरु᳚ण । मित्र᳚ । अर्य᳚मन् । मरु᳚तः । शर्म᳚ । य॒च्छ॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवासोदेवाः इदमिदं इतोभयहेतोः यं स्तोतारं त्रायध्वे पालयध्वे यं च स्तोतारं नयथ सन्मार्गं प्रापयथ हे अग्ने वरुण मित्र अर्यमन् हे मरुतः एवंभूता हे देवाः तस्मै स्तोत्रे शर्म सुखं यच्छत दत्त ॥ १ ॥

7.59.2
यु॒ष्माकं᳚ देवा॒ अव॒साह᳚नि प्रि॒य ई᳚जा॒नस्त᳚रति॒ द्विषः᳚ ।
प्र स क्षयं᳚ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा᳚य॒ दाश᳚ति ॥
▶ पदपाठः (Word-by-word)
यु॒ष्माक᳚म् । दे॒वाः॒ । अव᳚सा । अह᳚नि । प्रि॒ये । ई॒जा॒नः । त॒र॒ति॒ । द्विषः᳚ ।
प्र । सः । क्षय᳚म् । ति॒र॒ते॒ । वि । म॒हीः । इषः᳚ । यः । वः॒ । वरा᳚य । दाश᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः युष्माकं युष्मदीयेन अवसा रक्षणेन प्रिये अहनि सर्वेषां देवानां प्रियभूते सुत्याभिधाने दिवसे ईजानः इष्टवान् जनः द्विषः शत्रून् तरति आक्रामति सयजमानः क्षयं स्वकीयं निवासं प्रतिरते प्रवर्धयति । योयजमानः वोयुष्मभ्यं महीः महान्ति इषः हविर्लक्षणान्यन्नानि वराय निवारणाय यूयं नान्यत्रगच्छत अस्मदीयान्येव हवींषि स्वीकुरुतेति निरोधनं कर्तुं विदाशति विशेषेण ददाति अतएव स्वकीयं निवासं वर्धयतीत्यर्थः ॥ २ ॥

7.59.3
न॒हि व᳚श्चर॒मं च॒न वसि᳚ष्ठः परि॒मंस᳚ते ।
अ॒स्माक᳚म॒द्य म᳚रुतः सु॒ते सचा॒ विश्वे᳚ पिबत का॒मिनः᳚ ॥
▶ पदपाठः (Word-by-word)
न॒हि । वः॒ । च॒र॒मम् । च॒न । वसि᳚ष्ठः । प॒रि॒॑मंस᳚ते ।
अ॒स्माक᳚म् । अ॒द्य । म॒रु॒तः॒ । सु॒ते । सचा᳚ । विश्वे᳚ । पि॒ब॒त॒ । का॒मिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसिष्ठऋषिः वोयुष्माकं मध्ये चरमं चन अवरमपि नहि परिमंसते वर्जयित्वा न स्तौति किंतु सर्वानेव युष्मान्स्तौतीत्यर्थः अद्यास्मिन् दिने अस्माकमस्म दीये सुते सोमे अभिषुते सति हे मरुतः कामिनः सोमं कामयमानाः विश्वे यूयं सचा संगत्य पिबत पानं कुरुत ॥ ३ ॥

7.59.4
न॒हि व᳚ ऊ॒तिः पृत᳚नासु॒ मर्ध᳚ति॒ यस्मा॒ अरा᳚ध्वं नरः ।
अ॒भि व॒ आव᳚र्त्सुम॒तिर्नवी᳚यसी॒ तूयं᳚ यात पिपीषवः ॥
▶ पदपाठः (Word-by-word)
न॒हि । वः॒ । ऊ॒तिः । पृत᳚नासु । मर्ध᳚ति । यस्मै᳚ । अरा᳚ध्वम् । न॒रः॒ ।
अ॒भि । वः॒ । आ । अ॒व॒र्त् । सु॒॑म॒तिः । नवी᳚यसी । तूय᳚म् । या॒त॒ । पि॒पी॒ष॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः वोयुष्मदीया उती रक्षा पृतनासु युद्धेषु नहि मर्धति न खलु हिनस्ति शत्रुभिः कृतां हिंसां सहतइत्यर्थः । हे नरोनतोरोयूयं यस्मै जनाय अराध्वं कामानदध्वं तं जनं न हिनस्तीति संबन्धः । नवीयसी नवतरा वोयुष्मदीया सुमतिरनुग्रहबुद्धिः अभ्यावर्त अस्मान- भ्यावर्ततां तदा हे पिपीषवः सोमपानकामा यूयमपि तूयं क्षिप्रं यात आगच्छत ॥ ४ ॥

7.59.5
ओ षु घृ᳚ष्विराधसो या॒तनान्धां᳚सि पी॒तये᳚ ।
इ॒मा वो᳚ ह॒व्या म᳚रुतो र॒रे हि कं॒ मो ष्व१॒᳚न्यत्र᳚ गन्तन ॥
▶ पदपाठः (Word-by-word)
ओ इति᳚ । सु । घृ॒ष्वि॒॑रा॒ध॒सः॒ । या॒तन᳚ । अन्धां᳚सि । पी॒तये᳚ ।
इ॒मा । वः॒ । ह॒व्या । म॒रु॒तः॒ । र॒रे । हि । क॒म् । मो इति᳚ । सु । अ॒न्यत्र᳚ । ग॒न्त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे घृष्विराधसः परस्परं घृष्टानि सुसंहतानि राधांसि येषां ते हे मरुतः यूयमंधांसि सोमलक्षणानि हवींषि पीतये भक्षणार्थं सु सुष्टु आया- तन । आयात हि यस्मात् कारणात् हे मरुतोवोयुष्मभ्यं इमा इमानि हव्या हव्यानि हवींषि ररे अहं ददामि अतः कारणाद्यूयं अन्यत्र मोषुगन्तन मागच्छत कमितिपूरणः ॥ ५ ॥

7.59.6
आ च᳚ नो ब॒र्हिः सद᳚तावि॒ता च᳚ नः स्पा॒र्हाणि॒ दात᳚वे॒ वसु᳚ ।
अस्रे᳚धन्तो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा᳚दयाध्वै ॥
▶ पदपाठः (Word-by-word)
आ । च॒ । नः॒ । ब॒र्हिः । सद᳚त । अ॒वि॒त । च॒ । नः॒ । स्पा॒र्हाणि᳚ । दात᳚वे । वसु᳚ ।
अस्रे᳚धन्तः । म॒रु॒तः॒ । सो॒म्ये । मधौ᳚ । स्वाहा᳚ । इ॒ह । मा॒द॒या॒ध्वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतोयूयं नोस्मदीयेबर्हिः कुशमयेबर्हिषि आसदत च उपविशत स्पार्हाणि स्पृहणीयानि वसु वसूनि धनानि दातवे अस्मभ्यं दातुं नोस्मान् अवित च आगच्छत च हे मरुतः अस्रेधन्तः अहिंसन्तोयूयं इहास्मिन्यज्ञे मधौ मदकरे सोम्ये सोमात्मके ह विषि स्वाहा स्वाहा- कारेण मादयाध्वै मादयध्वं माद्यत ॥ ६ ॥

7.59.7
स॒स्वश्चि॒द्धि त॒न्व१॒᳚ः शुम्भ᳚माना॒ आ हं॒सासो॒ नील᳚पृष्ठा अपप्तन् ।
विश्वं॒ शर्धो᳚ अ॒भितो᳚ मा॒ नि षे᳚द॒ नरो॒ न र॒ण्वाः सव᳚ने॒ मद᳚न्तः ॥
▶ पदपाठः (Word-by-word)
स॒स्वरिति᳚ । चि॒त् । हि । त॒न्वः᳚ । शुम्भ᳚मानाः । आ । हं॒सासः᳚ । नील᳚॑पृष्ठाः । अ॒प॒प्त॒न् ।
विश्व᳚म् । शर्धः᳚ । अ॒भितः᳚ । मा॒ । नि । से॒द॒ । नरः᳚ । न । र॒ण्वाः । सव᳚ने । मद᳚न्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सस्वः अन्तर्हितामरुतः तन्वः स्वकीयान्यंगानि शुंभमानाः अलंकरणैः शोभयन्तो मरुतः नीलपृष्ठाः असितवर्णाः हंसासश्चित् हंसाइव आपप्तन् आपतन्तु आगच्छतु । विश्वं शर्धः व्याप्तोमरुद्गणः मा मां अभितः समन्तात् निषेद निषीदतु तत्रदृष्टान्तःसवनेस्मदीये यज्ञे मदन्तोहृष्यन्तः रण्वाः रमणीयाः नरोन मनुष्याइव तद्वत् ॥ ७ ॥ साकमेधेषु मरुद्भ्यः सान्तपनेभ्यइत्यस्य योनोमरुतइति पूर्वानुवाक्या सान्तपनाइदमितियाज्या तथाचसूत्रितं-सान्तपनाइदंहविर्यो- नोमरुतोअभिदुर्हृणायुरिति ।

7.59.8 समानपद
यो नो᳚ मरुतो अ॒भि दु᳚र्हृणा॒युस्ति॒रश्चि॒त्तानि᳚ वसवो॒ जिघां᳚सति ।
द्रु॒हः पाशा॒न्प्रति॒ स मु᳚चीष्ट॒ तपि᳚ष्ठेन॒ हन्म᳚ना हन्तना॒ तम् ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । म॒रु॒तः॒ । अ॒भि । दुः॒॑हृ॒णा॒युः । ति॒रः । चि॒त्तानि᳚ । व॒स॒वः॒ । जिघां᳚सति ।
द्रु॒हः । पाशा᳚न् । प्रति᳚ । सः । मु॒ची॒ष्ट॒ । तपि᳚ष्ठेन । हन्म᳚ना । ह॒न्त॒न॒ । तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसवः प्रशस्या हे मरुतः नोस्मदीयानि चित्तानि दुर्हृणायुः अशोभनं क्रुध्यन् तिरः सर्वैस्तिरस्कृतोयोजनः अभिजिघांसति आभिमुख्येन हन्तुमिच्छति सजनः द्रुहः पापानां द्रोग्धुर्वरुणस्य पाशान् अस्मासु प्रतिसमुचीष्ट बध्नीयात् यूयं तं जनं तपिष्ठेन तप्तुतमेन हन्मना हननसाधनेनायुधेन हन्तन हत हिंस्त ॥ ८ ॥

7.59.9
सांत᳚पना इ॒दं ह॒विर्मरु᳚त॒स्तज्जु᳚जुष्टन ।
यु॒ष्माको॒ती रि᳚शादसः ॥
▶ पदपाठः (Word-by-word)
सान्॑त᳚पनाः । इ॒दम् । ह॒विः । मरु᳚तः । तत् । जु॒जु॒ष्ट॒न॒ ।
यु॒ष्माक᳚ । ऊ॒ती । रि॒शा॒द॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सांतपनाः शत्रूणां संतापकाः हे मरुतः इदं प्रत्यक्षेणोपलभ्यमानं हविः युष्मभ्यं कल्पितमितिशेषः हे रिशादसः रिशतां हिंसतां असितारः रिशानामत्तारोवा यूयं युष्माक युष्माकं ऊती ऊत्या रक्षया तत्तादृशं हविर्जुजुष्टन सेवध्वम् ॥ ९ ॥

गृहमेधासइति गृहमेधीयस्य हविषोनुवाक्या सूत्रितंच- गृहमेधासआगत प्रबुध्र्यावईरतेमहांसीति ।

7.59.10
गृह᳚मेधास॒ आ ग᳚त॒ मरु᳚तो॒ माप᳚ भूतन ।
यु॒ष्माको॒ती सु᳚दानवः ॥
▶ पदपाठः (Word-by-word)
गृह᳚॑मेधासः । आ । ग॒त॒ । मरु᳚तः । मा । अप᳚ । भू॒त॒न॒ ।
यु॒ष्माक᳚ । ऊ॒ती । सु॒॑दा॒न॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृहमेधासः गृहेक्रियमाणोयज्ञोयेषां ते सुदानवः शोभनदाना हे मरुतोयूयं युष्माक युष्माकं ऊती ऊत्या रक्षया युक्ताः आगत अस्मदीयं यज्ञं प्रत्यागच्छत हे मरुतः मापभूतन अपगतामाभवत भूप्राप्तवितिधातुः ॥ १० ॥

वैश्वदेवपर्वणि मारुतस्यानुवाक्या इहेहवइत्येषा सूत्रितंच-इहेहवः स्वतवसः प्रचित्रमर्कंगृणतेतुरायेति ।

7.59.11
इ॒हेह᳚ वः स्वतवस॒ः कव᳚य॒ः सूर्य᳚त्वचः ।
य॒ज्ञं म᳚रुत॒ आ वृ᳚णे ॥
▶ पदपाठः (Word-by-word)
इ॒ह॑इ᳚ह । वः॒ । स्व॒॑त॒व॒सः॒ । कव᳚यः । सूर्य᳚॑त्वचः ।
य॒ज्ञम् । म॒रु॒तः॒ । आ । वृ॒णे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वतवसः स्वायत्तबलाः स्वयं प्रवृद्धावा हे कवयः क्रान्तदर्शिनः सूर्यत्वचः सूर्यवर्णाः एवंभूता हेमरुतोवः यूयं इहेह इहैव अस्मदीयं यज्ञं आवृणे आभजामि कल्पयामि ॥ ११ ॥

अत्र शौनकः त्रिरात्रंनियतोपोष्य श्र्पयेत्पायसंचरुम् । तेनाहुतिशतंपूर्णं जुहुयाच्छंसितव्रतः ॥ १ ॥

समुद्दिश्यमहादेवं त्र्यंबकंत्र्यंबकेत्यृचा । एतत्पर्वशतंकृत्वाजीवेद्वर्षशतंसुखी ॥ २ ॥

त्रयाणां ब्रह्मविष्णुरुद्राणां अंबकं पितरं यजामहेइति शिष्यसमाहितोवसिष्ठोब्रवीतिकिंविशिष्ट- मित्यतआह सुगन्धिं प्रसारितपुण्यकीर्तिं पुनः किंविशिष्टं पुष्टिचर्धनं जगद्बीजं उरुशक्तिमित्यर्थः उपासकस्य वर्धनं अणिमादिशक्तिवर्धनं अतस्त्वत्प्रसादादेव मृत्योर्मरणात् संसाराद्वा मुक्षीय मोचय यथा बंधनात् उर्वारुकं कर्कटीफलं मुच्यते तद्वन्मरणात्संसाराद्वा मोचय किं मर्यादीकृत्य आमृतात् सायुज्यतामोक्षपर्यन्तमित्यर्थः ॥

7.59.12
त्र्य᳚म्बकं यजामहे सु॒गन्धिं᳚ पुष्टि॒वर्ध᳚नम् ।
उ॒र्वा॒रु॒कमि᳚व॒ बन्ध᳚नान्मृ॒त्योर्मु᳚क्षीय॒ मामृता᳚त् ॥
▶ पदपाठः (Word-by-word)
त्र्य᳚म्बकम् । य॒जा॒म॒हे॒ । सु॒गन्धि᳚म् । पु॒ष्टि॒॑वर्ध᳚नम् ।
उ॒र्वा॒रु॒कम्॑इ᳚व । बन्ध᳚नात् । मृ॒त्योः । मु॒क्षी॒य॒ । मा । अ॒मृता᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ तैत्तिरीयभाष्ये-शोभनः शरीरगंधः पुण्यगंधोवा यस्यासौ सुगंधिः । यथा वृक्षस्य संपुष्पितस्य दूराद्गंधोवात्येवं पुण्यस्य कर्मणोदूराद्गधोवातीतिश्रुतेः । पुष्टिं शरीरं धनादिविषयां वर्धयतीति पुष्टिवर्धनस्तादृशं त्र्यंबकं यजामहे पूजयामः लोके यथोर्वारुकफलानि बंधनात् वृंतात्स्वयमेव मुच्यन्ते तद्वदहं त्र्यंबकप्रसादेन मृत्योर्मुक्षीय मोचयन् मुक्तो- भूयासं अमृताच्चिरजीवितात् स्वर्गादेर्वा मामुक्षीय । चतुर्थपादार्थमंत्रस्य तात्पर्यातिशयं दर्शयति-त्र्यंबकं यजामहइत्याह मृत्योर्मुक्षीय- मामृतादिति वावैतदाहेति ॥ १२ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थीश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक् संहिताभाष्ये पंचमाष्टके चतुर्थोध्यायः समाप्तः ॥ ४ ॥