सप्तमं मण्डलम् - सूक्तम् 61

7 ऋचः

ऋषिः: वसिष्ठः देवता: मित्रावरुणौ छन्दः: त्रिष्टुप्

सूक्तम् 7.61 - सम्पूर्णम्

1 / 7
ऋक्: 7.61.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.61.1
उद्वां॒ चक्षु᳚र्वरुण सु॒प्रती᳚कं दे॒वयो᳚रेति॒ सूर्य᳚स्तत॒न्वान् ।
अ॒भि यो विश्वा॒ भुव᳚नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि᳚केत ॥
▶ पदपाठः (Word-by-word)
उत् । वा॒म् । चक्षुः᳚ । व॒रु॒णा॒ । सु॒॑प्रती᳚कम् । दे॒वयोः᳚ । ए॒ति॒ । सूर्यः᳚ । त॒त॒न्वान् ।
अ॒भि । यः । विश्वा᳚ । भुव᳚नानि । च॒ष्टे॒ । सः । म॒न्युम् । मर्त्ये᳚षु । आ । चि॒के॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वरुणा मित्रावरुणौ देवयोर्द्योतमानयोर्वां युवयोश्चक्षुः प्रकाशकं तेजः सुप्रतीकं शोभनरूपं एवं रूपः सूर्यः ततन्वान् तेजोविस्तारयन्नु- देति उद्गच्छति अथोदितोयोदेवोविश्वा सर्वाणि भुवनानि भूतजातानि अभिचष्टे अभिपश्यति सदेवोमर्त्येषु प्रवृत्तं मन्युं स्तोत्रं कर्म वा आचिकेत आजानाति ॥ १ ॥

7.61.2
प्र वां॒ स मि᳚त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा᳚नि दीर्घ॒श्रुदि᳚यर्ति ।
यस्य॒ ब्रह्मा᳚णि सुक्रतू॒ अवा᳚थ॒ आ यत्क्रत्वा॒ न श॒रदः᳚ पृ॒णैथे᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । वा॒म् । सः । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॑वा᳚ । विप्रः᳚ । मन्मा᳚नि । दी॒र्घ॒॑श्रुत् । इ॒य॒र्ति॒ ।
यस्य᳚ । ब्रह्मा᳚णि । सु॒क्र॒तू॒ इति᳚ सु॑क्रतू । अवा᳚थः । आ । यत् । क्रत्वा᳚ । न । श॒रदः᳚ । पृ॒णैथे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ वां युवयोर्मन्मानि मननीयानि स्तोत्राणि सः प्रसिद्धः विप्रोमेधावी ऋतवा यज्ञवान् दीर्घश्रुत् चिरकालं श्रोता एवमुक्त- लक्षणोवसिष्ठः प्रेयर्ति प्रेरयति यस्य ऋषेः ब्रह्माणि परिवृढानि स्तोत्राणि हे सुक्रतू शोभनकर्माणौ अवाथोरक्षथः यत्क्रत्वा न कर्म शरदोबहून्संवत्सरान् आपृणैथे आपूरयेथे सउदियर्ति ॥ २ ॥

7.61.3
प्रोरोर्मि᳚त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ᳚ह॒तः सु᳚दानू ।
स्पशो᳚ दधाथे॒ ओष᳚धीषु वि॒क्ष्वृध᳚ग्य॒तो अनि᳚मिषं॒ रक्ष᳚माणा ॥
▶ पदपाठः (Word-by-word)
प्र । उ॒रोः । मि॒त्रा॒व॒रु॒णा॒ । पृ॒थि॒व्याः । प्र । दि॒वः । ऋ॒ष्वात् । बृ॒ह॒तः । सु॒दा॒नू॒ इति᳚ सु॑दानू ।
स्पशः᳚ । द॒धा॒थे॒ इति᳚ । ओष᳚धीषु । वि॒क्षु । ऋध᳚क् । य॒तः । अनि᳚॑मिषम् । रक्ष᳚माणा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणा मित्रावरुणौ युवां उरोर्विस्तीर्णायाः पृथिव्याअपि प्रप्ररिरिचाथे अस्येदेव प्ररिरिच इत्यादिषु प्रशब्दस्य रिरिच इत्यनेन सह संबन्धदर्शनादत्राप्युचितक्रियाध्याहारेण रिरिचेइतियोज्यम् । तथा ऋष्वात् गुणैर्महतो बृहतः स्वरूपतोतिमहतोदिवोद्युलोकादपि प्ररिरिचाथे हे सुदानू शोभनदानौ किञ्च ओषधीषु विक्षु प्रजासु निमित्तभूतासु प्रजासु चेतिवा स्पशोरूपं दधाथे धारयेथे किंकुर्वन्तौ ऋधक् सत्येन यतः विवेकात् सत्येन गच्छतो जनान् अनिमिषं अव्यवधानेन सर्वदा रक्षमाणा पालयन्तौ ॥ ३ ॥

7.61.4 समानपद
शंसा᳚ मि॒त्रस्य॒ वरु᳚णस्य॒ धाम॒ शुष्मो॒ रोद᳚सी बद्बधे महि॒त्वा ।
अय॒न्मासा॒ अय᳚ज्वनाम॒वीरा॒ः प्र य॒ज्ञम᳚न्मा वृ॒जनं᳚ तिराते ॥
▶ पदपाठः (Word-by-word)
शंस᳚ । मि॒त्रस्य᳚ । वरु᳚णस्य । धाम᳚ । शुष्मः᳚ । रोद᳚सी॒ इति᳚ । ब॒द्ब॒धे॒ । म॒हि॒॑त्वा ।
अय᳚न् । मासाः᳚ । अय᳚ज्वनाम् । अ॒वीराः᳚ । प्र । य॒ज्ञ॑म᳚न्मा । वृ॒जन᳚म् । ति॒रा॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋषे मित्रस्य वरुणस्य च धाम तेजः स्थानं शंस स्तुहि ययोर्देवयोः शुष्मोबलंरोदसी द्यावापृथिव्यौ सहवर्तमाने महित्वा स्वमहत्त्वेन बद्बधे बध्नाति पृथक्स्थापयति इयं पृथिवी इयं द्यौरिति पृथक्करोति द्यावापृथिवीसहास्तामितिश्रुतेः । अयज्वनांअननुष्ठातॄणां मासाः कालावयवाः अवीराअपुत्राएवायन् यन्तु गच्छन्तु तद्विप्ररीतो यज्ञमन्मा यज्ञार्थं मतिमान् यज्वा वृजनं बलं प्रतिराते प्रवर्धयतु प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ४ ॥

7.61.5
अमू᳚रा॒ विश्वा᳚ वृषणावि॒मा वां॒ न यासु᳚ चि॒त्रं ददृ᳚शे॒ न य॒क्षम् ।
द्रुहः᳚ सचन्ते॒ अनृ᳚ता॒ जना᳚नां॒ न वां᳚ नि॒ण्यान्य॒चिते᳚ अभूवन् ॥
▶ पदपाठः (Word-by-word)
अमू᳚रा । विश्वा᳚ । वृ॒ष॒णौ॒ । इ॒माः । वा॒म् । न । यासु᳚ । चि॒त्रम् । ददृ᳚शे । न । य॒क्षम् ।
द्रुहः᳚ । स॒च॒न्ते॒ । अनृ᳚ता । जना᳚नाम् । न । वा॒म् । नि॒ण्यानि᳚ । अ॒चिते᳚ । अ॒भू॒व॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमूरा अमूढौ विश्वा व्याप्तौ हे वृषणौ वर्षितारौ वां युवाभ्यां इमा इमानि स्तुतिवचांसि क्रियन्ते यासु स्तुतिषु चित्रं आश्चर्यं न ददृशे न यक्षं न पूजा दृश्यते युवाभ्यां महिम्नोपि महत्वात् प्रयत्नेन क्रियमाणमपि स्तोत्रं न चमत्करोतीत्यर्थः । जनानां अनृता अस्तुत्यविष- याणिस्तोत्राणि द्रुहोद्रोग्धारः सचन्ते सेवन्ते न महान्तः वां युवाभ्यां क्रियमाणानि निण्यानि अन्तर्हितानि रहस्यान्यपि स्तोत्राणि अचिते अज्ञानाय न अभूवन्न भवन्ति ॥ ५ ॥

7.61.6
समु᳚ वां य॒ज्ञं म᳚हयं॒ नमो᳚भिर्हु॒वे वां᳚ मित्रावरुणा स॒बाधः᳚ ।
प्र वां॒ मन्मा᳚न्यृ॒चसे॒ नवा᳚नि कृ॒तानि॒ ब्रह्म᳚ जुजुषन्नि॒मानि᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । वा॒म् । य॒ज्ञम् । म॒ह॒य॒म् । नमः᳚॑भिः । हु॒वे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स॒॑बाधः᳚ ।
प्र । वा॒म् । मन्मा᳚नि । ऋ॒चसे᳚ । नवा᳚नि । कृ॒तानि᳚ । ब्रह्म᳚ । जु॒जु॒ष॒न् । इ॒मानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ वां युवयोर्यज्ञं नमोभिर्नमस्कारैः स्तुतिभिः समुमहयं संपूजयाम्यहं तदर्थं हे मित्रावरुणा मित्रारुवणौ वां सबाधोबाधा- युक्तोहं हुवे आह्वयामि बाधापरिहाराय वां युवां ऋचसे सेवितुं नवानि नूतनानि स्तुत्यानि वा मन्मानि स्तोत्राणि प्रभवत्न्वित्यध्याहारः कृतानि मया समूहीकृतानि इमानीदानीं क्रियमाणानि ब्रह्म परिवृढानि स्तोत्राणि युवां जुजुषन् प्रीणयन्तु ॥ ६ ॥

7.61.7
इ॒यं दे᳚व पु॒रोहि᳚तिर्यु॒वभ्यां᳚ य॒ज्ञेषु᳚ मित्रावरुणावकारि ।
विश्वा᳚नि दु॒र्गा पि᳚पृतं ति॒रो नो᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । दे॒व॒ । पु॒रः॑हि᳚तिः । यु॒व॑भ्या᳚म् । य॒ज्ञेषु᳚ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।
विश्वा᳚नि । दुः॒॑गा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयंदेतेतिसप्तमीगता ॥ ७ ॥

उत्सूर्यइति षळृचं सप्तमं सूक्तं अत्रानुक्रमणिका-उत्सूर्यः षळाद्यास्तिस्रः सौर्यइति वसिष्ठऋषिः त्रिष्टुप् छन्दः आद्यास्तिस्रः सूर्यदेवत्याः शिष्टामित्रावरुणदेवत्याः सूक्तविनियोगोलैङ्गिकः ।