श्रवणम्

7.61.4 समानपद
शंसा᳚ मि॒त्रस्य॒ वरु᳚णस्य॒ धाम॒ शुष्मो॒ रोद᳚सी बद्बधे महि॒त्वा ।
अय॒न्मासा॒ अय᳚ज्वनाम॒वीरा॒ः प्र य॒ज्ञम᳚न्मा वृ॒जनं᳚ तिराते ॥
▶ पदपाठः (Word-by-word)
शंस᳚ । मि॒त्रस्य᳚ । वरु᳚णस्य । धाम᳚ । शुष्मः᳚ । रोद᳚सी॒ इति᳚ । ब॒द्ब॒धे॒ । म॒हि॒॑त्वा ।
अय᳚न् । मासाः᳚ । अय᳚ज्वनाम् । अ॒वीराः᳚ । प्र । य॒ज्ञ॑म᳚न्मा । वृ॒जन᳚म् । ति॒रा॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋषे मित्रस्य वरुणस्य च धाम तेजः स्थानं शंस स्तुहि ययोर्देवयोः शुष्मोबलंरोदसी द्यावापृथिव्यौ सहवर्तमाने महित्वा स्वमहत्त्वेन बद्बधे बध्नाति पृथक्स्थापयति इयं पृथिवी इयं द्यौरिति पृथक्करोति द्यावापृथिवीसहास्तामितिश्रुतेः । अयज्वनांअननुष्ठातॄणां मासाः कालावयवाः अवीराअपुत्राएवायन् यन्तु गच्छन्तु तद्विप्ररीतो यज्ञमन्मा यज्ञार्थं मतिमान् यज्वा वृजनं बलं प्रतिराते प्रवर्धयतु प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ४ ॥