प्र वां॒ स मि᳚त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा᳚नि दीर्घ॒श्रुदि᳚यर्ति ।
यस्य॒ ब्रह्मा᳚णि सुक्रतू॒ अवा᳚थ॒ आ यत्क्रत्वा॒ न श॒रदः᳚ पृ॒णैथे᳚ ॥
यस्य॒ ब्रह्मा᳚णि सुक्रतू॒ अवा᳚थ॒ आ यत्क्रत्वा॒ न श॒रदः᳚ पृ॒णैथे᳚ ॥
पदपाठः (Word-by-word)
प्र । वा॒म् । सः । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॑वा᳚ । विप्रः᳚ । मन्मा᳚नि । दी॒र्घ॒॑श्रुत् । इ॒य॒र्ति॒ ।
यस्य᳚ । ब्रह्मा᳚णि । सु॒क्र॒तू॒ इति᳚ सु॑क्रतू । अवा᳚थः । आ । यत् । क्रत्वा᳚ । न । श॒रदः᳚ । पृ॒णैथे॒ इति᳚ ॥
यस्य᳚ । ब्रह्मा᳚णि । सु॒क्र॒तू॒ इति᳚ सु॑क्रतू । अवा᳚थः । आ । यत् । क्रत्वा᳚ । न । श॒रदः᳚ । पृ॒णैथे॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे मित्रावरुणौ वां युवयोर्मन्मानि मननीयानि स्तोत्राणि सः प्रसिद्धः विप्रोमेधावी ऋतवा यज्ञवान् दीर्घश्रुत् चिरकालं श्रोता एवमुक्त- लक्षणोवसिष्ठः प्रेयर्ति प्रेरयति यस्य ऋषेः ब्रह्माणि परिवृढानि स्तोत्राणि हे सुक्रतू शोभनकर्माणौ अवाथोरक्षथः यत्क्रत्वा न कर्म शरदोबहून्संवत्सरान् आपृणैथे आपूरयेथे सउदियर्ति ॥ २ ॥