श्रवणम्

7.61.6
समु᳚ वां य॒ज्ञं म᳚हयं॒ नमो᳚भिर्हु॒वे वां᳚ मित्रावरुणा स॒बाधः᳚ ।
प्र वां॒ मन्मा᳚न्यृ॒चसे॒ नवा᳚नि कृ॒तानि॒ ब्रह्म᳚ जुजुषन्नि॒मानि᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । वा॒म् । य॒ज्ञम् । म॒ह॒य॒म् । नमः᳚॑भिः । हु॒वे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स॒॑बाधः᳚ ।
प्र । वा॒म् । मन्मा᳚नि । ऋ॒चसे᳚ । नवा᳚नि । कृ॒तानि᳚ । ब्रह्म᳚ । जु॒जु॒ष॒न् । इ॒मानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ वां युवयोर्यज्ञं नमोभिर्नमस्कारैः स्तुतिभिः समुमहयं संपूजयाम्यहं तदर्थं हे मित्रावरुणा मित्रारुवणौ वां सबाधोबाधा- युक्तोहं हुवे आह्वयामि बाधापरिहाराय वां युवां ऋचसे सेवितुं नवानि नूतनानि स्तुत्यानि वा मन्मानि स्तोत्राणि प्रभवत्न्वित्यध्याहारः कृतानि मया समूहीकृतानि इमानीदानीं क्रियमाणानि ब्रह्म परिवृढानि स्तोत्राणि युवां जुजुषन् प्रीणयन्तु ॥ ६ ॥