श्रवणम्

7.61.5
अमू᳚रा॒ विश्वा᳚ वृषणावि॒मा वां॒ न यासु᳚ चि॒त्रं ददृ᳚शे॒ न य॒क्षम् ।
द्रुहः᳚ सचन्ते॒ अनृ᳚ता॒ जना᳚नां॒ न वां᳚ नि॒ण्यान्य॒चिते᳚ अभूवन् ॥
▶ पदपाठः (Word-by-word)
अमू᳚रा । विश्वा᳚ । वृ॒ष॒णौ॒ । इ॒माः । वा॒म् । न । यासु᳚ । चि॒त्रम् । ददृ᳚शे । न । य॒क्षम् ।
द्रुहः᳚ । स॒च॒न्ते॒ । अनृ᳚ता । जना᳚नाम् । न । वा॒म् । नि॒ण्यानि᳚ । अ॒चिते᳚ । अ॒भू॒व॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमूरा अमूढौ विश्वा व्याप्तौ हे वृषणौ वर्षितारौ वां युवाभ्यां इमा इमानि स्तुतिवचांसि क्रियन्ते यासु स्तुतिषु चित्रं आश्चर्यं न ददृशे न यक्षं न पूजा दृश्यते युवाभ्यां महिम्नोपि महत्वात् प्रयत्नेन क्रियमाणमपि स्तोत्रं न चमत्करोतीत्यर्थः । जनानां अनृता अस्तुत्यविष- याणिस्तोत्राणि द्रुहोद्रोग्धारः सचन्ते सेवन्ते न महान्तः वां युवाभ्यां क्रियमाणानि निण्यानि अन्तर्हितानि रहस्यान्यपि स्तोत्राणि अचिते अज्ञानाय न अभूवन्न भवन्ति ॥ ५ ॥