प्रोरोर्मि᳚त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ᳚ह॒तः सु᳚दानू ।
स्पशो᳚ दधाथे॒ ओष᳚धीषु वि॒क्ष्वृध᳚ग्य॒तो अनि᳚मिषं॒ रक्ष᳚माणा ॥
स्पशो᳚ दधाथे॒ ओष᳚धीषु वि॒क्ष्वृध᳚ग्य॒तो अनि᳚मिषं॒ रक्ष᳚माणा ॥
पदपाठः (Word-by-word)
प्र । उ॒रोः । मि॒त्रा॒व॒रु॒णा॒ । पृ॒थि॒व्याः । प्र । दि॒वः । ऋ॒ष्वात् । बृ॒ह॒तः । सु॒दा॒नू॒ इति᳚ सु॑दानू ।
स्पशः᳚ । द॒धा॒थे॒ इति᳚ । ओष᳚धीषु । वि॒क्षु । ऋध᳚क् । य॒तः । अनि᳚॑मिषम् । रक्ष᳚माणा ॥
स्पशः᳚ । द॒धा॒थे॒ इति᳚ । ओष᳚धीषु । वि॒क्षु । ऋध᳚क् । य॒तः । अनि᳚॑मिषम् । रक्ष᳚माणा ॥
सायणभाष्यम् (Sayana Commentary)
हे मित्रावरुणा मित्रावरुणौ युवां उरोर्विस्तीर्णायाः पृथिव्याअपि प्रप्ररिरिचाथे अस्येदेव प्ररिरिच इत्यादिषु प्रशब्दस्य रिरिच इत्यनेन सह संबन्धदर्शनादत्राप्युचितक्रियाध्याहारेण रिरिचेइतियोज्यम् । तथा ऋष्वात् गुणैर्महतो बृहतः स्वरूपतोतिमहतोदिवोद्युलोकादपि प्ररिरिचाथे हे सुदानू शोभनदानौ किञ्च ओषधीषु विक्षु प्रजासु निमित्तभूतासु प्रजासु चेतिवा स्पशोरूपं दधाथे धारयेथे किंकुर्वन्तौ ऋधक् सत्येन यतः विवेकात् सत्येन गच्छतो जनान् अनिमिषं अव्यवधानेन सर्वदा रक्षमाणा पालयन्तौ ॥ ३ ॥