सप्तमं मण्डलम् - सूक्तम् 78

5 ऋचः

ऋषिः: वसिष्ठः देवता: उषाः छन्दः: त्रिष्टुप्

सूक्तम् 7.78 - सम्पूर्णम्

1 / 5
ऋक्: 7.78.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
7.78.1
प्रति᳚ के॒तवः᳚ प्रथ॒मा अ᳚दृश्रन्नू॒र्ध्वा अ᳚स्या अ॒ञ्जयो॒ वि श्र᳚यन्ते ।
उषो᳚ अ॒र्वाचा᳚ बृह॒ता रथे᳚न॒ ज्योति᳚ष्मता वा॒मम॒स्मभ्यं᳚ वक्षि ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । के॒तवः᳚ । प्र॒थ॒माः । अ॒दृ॒श्र॒न् । ऊ॒र्ध्वाः । अ॒स्याः॒ । अ॒ञ्जयः᳚ । वि । श्र॒य॒न्ते॒ ।
उषः᳚ । अ॒र्वाचा᳚ । बृ॒ह॒ता । रथे᳚न । ज्योति᳚ष्मता । वा॒मम् । अ॒स्मभ्य᳚म् । व॒क्षि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याः प्रथमाः प्रथमोत्पन्नाः केतवः प्रज्ञापकारश्मयः प्रत्यदृश्रन् प्रतिदृश्यन्ते अस्या अञ्चयोव्यञ्चकारश्मयः ऊर्ध्वा ऊर्ध्वमुखा विश्रयन्ते विविधं सर्वत्र श्रयन्ति हे उषोदेवि अर्वाचा अस्मदभिमुखेनागच्छता बृहता महता ज्योतिष्मता तेजोवता रथेन वामं वननीयं धनमस्मभ्यं वक्षि वहसि ॥ १ ॥

7.78.2 समानपद
प्रति᳚ षीम॒ग्निर्ज᳚रते॒ समि᳚द्ध॒ः प्रति॒ विप्रा᳚सो म॒तिभि᳚र्गृ॒णन्त᳚ः ।
उ॒षा या᳚ति॒ ज्योति᳚षा॒ बाध᳚माना॒ विश्वा॒ तमां᳚सि दुरि॒ताप᳚ दे॒वी ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । सी॒म् । अ॒ग्निः । ज॒र॒ते॒ । सम्॑इ᳚द्धः । प्रति᳚ । विप्रा᳚सः । म॒ति॑भिः᳚ । गृ॒णन्तः᳚ ।
उ॒षाः । या॒ति॒ । ज्योति᳚षा । बाध᳚माना । विश्वा᳚ । तमां᳚सि । दुः॒॑इ॒ता । अप᳚ । दे॒वी ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निः समिद्धः सन् सीं सर्वतः प्रतिजरते अभिवर्धते विप्रासोविप्रा मेधाविन ऋत्विजश्च मतिभिः स्तुतिभिरुषसंप्रति गृणन्तः स्तुवन्तो- जरन्ते उषाश्च देवी ज्योतिषा विश्वा सर्वाणि तमांसिदुरितास्मदृउरितानि अपबाधमाना याति ऊर्ध्वंगच्छति ॥ २ ॥

7.78.3
ए॒ता उ॒ त्याः प्रत्य᳚दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ᳚न्तीरु॒षसो᳚ विभा॒तीः ।
अजी᳚जन॒न्त्सूर्यं᳚ य॒ज्ञम॒ग्निम᳚पा॒चीनं॒ तमो᳚ अगा॒दजु᳚ष्टम् ॥
▶ पदपाठः (Word-by-word)
ए॒ताः । ऊं॒ इति᳚ । त्याः । प्रति᳚ । अ॒दृ॒श्र॒न् । पु॒रस्ता᳚त् । ज्योतिः᳚ । यच्छ᳚न्तीः । उ॒षसः᳚ । वि॒॑भा॒तीः ।
अजी᳚जनन् । सूर्य᳚म् । य॒ज्ञम् । अ॒ग्निम् । अ॒पा॒चीन᳚म् । तमः᳚ । अ॒गा॒त् । अजु᳚ष्टम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एता उइतिपूरणः त्याः ता प्रसिद्धा एता विभातीर्विभात्योविभानं कुर्वत्योज्योतिस्तेजः यच्छन्तीः प्रयच्छन्त्यः उषसः पुरस्तात्पूर्वस्यां दिशि प्रत्यदृश्रन् प्रतिदृश्यन्ते ताउषसः सूर्यं यज्ञं अग्निंच अजीजनन्प्रादुरकुर्वन् उषसउदयानन्तरं तेषां संभवात्तज्जनकत्वमुपचर्यते किञ्च अपाचीनं नीचीनमजुष्टमप्रियं सर्वेषा दृष्टिनिरोधकत्वादप्रियत्वं तादृशं तमःअगात् अपगतमभूत् ॥ ३ ॥

7.78.4
अचे᳚ति दि॒वो दु᳚हि॒ता म॒घोनी॒ विश्वे᳚ पश्यन्त्यु॒षसं᳚ विभा॒तीम् ।
आस्था॒द्रथं᳚ स्व॒धया᳚ यु॒ज्यमा᳚न॒मा यमश्वा᳚सः सु॒युजो॒ वह᳚न्ति ॥
▶ पदपाठः (Word-by-word)
अचे᳚ति । दि॒वः । दु॒हि॒ता । म॒घोनी᳚ । विश्वे᳚ । प॒श्य॒न्ति॒ । उ॒षस᳚म् । वि॒॑भा॒तीम् ।
आ । अ॒स्था॒त् । रथ᳚म् । स्व॒धया᳚ । यु॒ज्यमा᳚नम् । आ । यम् । अश्वा᳚सः । सु॒॑युजः᳚ । वह᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवोदुहिता मघोनी धनवती उषाः अचेति सर्वैर्ज्ञायते विश्वे सर्वेपि प्राणिनोविभातीं उच्छन्तीं उषसं पश्यन्ति ताद्रुशी देवी स्वधयान्नेन युज्यमानं रथं आस्थात् आतिष्ठत् आरोहति यं रथं सुयुजः शोभनयोजना अश्वासोऽश्वाः आवहन्ति अभिमतदेशं प्रापयन्ति तं स्थमास्थादिति ॥ ४ ॥

7.78.5
प्रति᳚ त्वा॒द्य सु॒मन᳚सो बुधन्ता॒स्माका᳚सो म॒घवा᳚नो व॒यं च᳚ ।
ति॒ल्वि॒ला॒यध्व᳚मुषसो विभा॒तीर्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । त्वा॒ । अ॒द्य । सु॒॑मन᳚सः । बु॒ध॒न्त॒ । अ॒स्माका᳚सः । म॒घ॑वा᳚नः । व॒यम् । च॒ ।
ति॒ल्वि॒ला॒यध्व᳚म् । उ॒ष॒सः॒ । वि॒॑भा॒तीः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषसस्त्वात्वां अद्यास्मिन्काले सुमनसः शोभनस्तुतिकामघवानो हविर्लक्षणान्नवन्तोस्माकासोस्माका अस्मदीयाः पुरुषा ऋत्विजः यद्वा मघवानइत्येतत् वयमित्येतस्य विशेषणं हविष्मन्तोवयं प्रतिबुधन्त प्रत्यबोधयन् स्तुतिभिः । हे उषसोयूयंच विभातीः व्युच्छंत्यः सत्यस्तिल्विलायध्वं जगत् स्रिग्धभूमिकं कुरुत तिलस्रेहने इत्यस्मात्तिलुः तिलुरिलाभूमिः यस्य तत्तिल्विलं तत्कुरुत । शिष्टं स्पष्टम् ॥ ५ ॥ व्युषाआवइति पञ्चर्चं नवमं सूक्तं वसिष्ठस्यार्षमुषस्यं त्रैष्टुभं व्युषाइत्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।