सप्तमं मण्डलम् - सूक्तम् 33

14 ऋचः

ऋषिः: वसिष्ठः देवता: वसिष्ठपुत्राः छन्दः: त्रिष्टुप्

सूक्तम् 7.33 - सम्पूर्णम्

1 / 14
ऋक्: 7.33.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
7.33.1
श्वि॒त्यञ्चो᳚ मा दक्षिण॒तस्क᳚पर्दा धियंजि॒न्वासो᳚ अ॒भि हि प्र᳚म॒न्दुः ।
उ॒त्तिष्ठ᳚न्वोचे॒ परि᳚ ब॒र्हिषो॒ नॄन्न मे᳚ दू॒रादवि᳚तवे॒ वसि᳚ष्ठाः ॥
▶ पदपाठः (Word-by-word)
श्वि॒त्यञ्चः᳚ । मा॒ । द॒क्षि॒ण॒तः॑क᳚पर्दाः । धि॒य॒म्॑जि॒न्वासः᳚ । अ॒भि । हि । प्र॒॑म॒न्दुः ।
उ॒त्॑तिष्ठ᳚न् । वो॒चे॒ । परि᳚ । ब॒र्हिषः᳚ । नॄन् । न । मे॒ । दू॒रात् । अवि᳚तवे । वसि᳚ष्ठाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्वित्यंचः श्वित्यं श्वेतवर्णं अंचंतीति श्वित्यंचः श्वेतवर्णाइत्यर्थः धियं जिन्वासः कर्मणां पूरयितारो दक्षिणतस्कपर्दाः दक्षिणेशिरसोभागे कपर्दाः चूडा येषां ते दक्षिणतस्कपर्दाः चूडाकर्मणि दक्षिणतोवसिष्ठानामितिस्मर्यते । मा मां अभिप्रमन्दुः विद्याबलेनाभिप्रहर्षयन् हिः- पूरणः यतोमामभिप्रमन्दुरतोबर्हिषोयज्ञात् परीति पंचम्यर्थानुवादः उत्तिष्ठन् अहं नॄन् यज्ञस्य नेतॄन् वोचे ब्रवीमि मेमत्तोदूरात् वसिष्ठाः वसिष्ठस्य ममपुत्राः सुदासराजानं अवितवे गन्तुं न अर्हन्तीतिशेषः ॥ १ ॥

7.33.2
दू॒रादिन्द्र᳚मनय॒न्ना सु॒तेन᳚ ति॒रो वै᳚श॒न्तमति॒ पान्त᳚मु॒ग्रम् ।
पाश᳚द्युम्नस्य वाय॒तस्य॒ सोमा᳚त्सु॒तादिन्द्रो᳚॑वृणीता॒ वसि᳚ष्ठान् ॥
▶ पदपाठः (Word-by-word)
दू॒रात् । इन्द्र᳚म् । अ॒न॒य॒न् । आ । सु॒तेन᳚ । ति॒रः । वै॒श॒न्तम् । अति᳚ । पान्त᳚म् । उ॒ग्रम् ।
पाश᳚॑द्युम्नस्य । वा॒य॒तस्य᳚ । सोमा᳚त् । सु॒तात् । इन्द्रः᳚ । अ॒वृ॒णी॒त॒ । वसि᳚ष्ठान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदा वसिष्ठस्य पुत्राः सुदासं राजानमयाजन् तदैव पाशद्युम्नाख्योपि राजा सोमान्यष्टुमुद्यमंचकार तदा ते वसिष्ठपुत्राः पाशद्युम्रं तिरस्कृ- त्य तदीये यागे सोमं पिबन्तमिन्द्रं मंत्रबलेन तस्मादाच्छिद्य सुदासयज्ञे स्थापयामासुः तदेतद्वृत्तान्तं कीर्तयन् वसिष्ठः स्वसुताननेन मंत्रेण स्तौति वैशंतं चेशन्तःपल्वलं अत्रवेशन्तशब्देन सोमाधारश्चमसो लक्ष्यते तत्स्थं सोमं पांतं पिबन्तं उग्रमुद्गूर्णमिन्द्रं सुतेन सुदासो- यज्ञेभिषुतेन सोमेन हेतुना तिरः पाशद्युम्नं तिरस्कृत्य दूरादानयन् वसिष्ठामंत्रबलेनानीतवन्तः । इन्द्रोपि वायतस्य वयतः पुत्रस्य पाशद्यु- म्रस्य द्वितीयार्थेषष्ठी वायतंपाशद्युम्रं अतिहाय सुदासोयज्ञे सुतात् अभिषुतात् सोमाद्धेतोः वसिष्ठान् वसिष्ठस्य पुत्रान् अवृणीत पाशद्यु- म्रस्य सोमयागे चमसस्थं सोमं पिबन्नपीन्द्रस्तं पाशद्युम्रं तिरस्कृत्य मंत्रसामर्थ्यबलेन सुदासो यज्ञे आहवनकाले वसिष्ठानाजगामेत्यर्थः ॥ २ ॥

7.33.3
ए॒वेन्नु कं॒ सिन्धु᳚मेभिस्ततारे॒वेन्नु कं᳚ भे॒दमे᳚भिर्जघान ।
ए॒वेन्नु कं᳚ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म᳚णा वो वसिष्ठाः ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । नु । क॒म् । सिन्धु᳚म् । ए॒भिः॒ । त॒ता॒र॒ । ए॒व । इत् । नु । क॒म् । भे॒दम् । ए॒भिः॒ । ज॒घा॒न॒ ।
ए॒व । इत् । नु । क॒म् । दा॒श॒॑रा॒ज्ञे । सु॒॑दास᳚म् । प्र । आ॒व॒त् । इन्द्रः᳚ । ब्रह्म᳚णा । वः॒ । व॒सि॒ष्ठाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवेत् यथा पाशद्युम्रस्य सवाख्ये सोमयागे चमसस्थं सोमं पिबन्तमपीद्रं वसिष्ठैः सुदाः प्राप्तवान् एवमेव सिन्धुं नदीं एभिर्वसिष्ठैः कं सुखेन ततार तीर्णआसीत् नुइतिपूरणः तथाचनिगमान्तारं-अर्णांसिचित्पप्रथानासुदासइति । एवेत् एवमेव भेदं भेदनामकं शत्रुमपि एभिर्वसिष्ठैरेव जघान । अथप्रत्यक्षस्तुतिः एवेत् एवमेव हे वसिष्ठाः वोयुष्मदीयेनब्रह्मणा स्तोत्रेण दाशराज्ञे दशभीराजभिः सह युद्धे प्रवृत्तेसति सुदासं राजानमिन्द्रः प्रावत् प्रारक्षत् तथाचनिगमान्तरं-दशराजानःसमिताअयज्यवः । सुदासमिन्द्रावरुणानयुयुधुरिति । दाशराज्ञेपरियत्तायविश्वतइतिच ॥ ३ ॥

7.33.4
जुष्टी᳚ नरो॒ ब्रह्म᳚णा वः पितॄ॒णामक्ष᳚मव्ययं॒ न किला᳚ रिषाथ ।
यच्छक्व᳚रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद᳚धाता वसिष्ठाः ॥
▶ पदपाठः (Word-by-word)
जुष्टी᳚ । न॒रः॒ । ब्रह्म᳚णा । वः॒ । पि॒तॄ॒णाम् । अक्ष᳚म् । अ॒व्य॒य॒म् । न । किल᳚ । रि॒षा॒थ॒ ।
यत् । शक्व᳚रीषु । बृ॒ह॒ता । रवे᳚ण । इन्द्रे᳚ । शुष्म᳚म् । अद᳚धात । व॒सि॒ष्ठाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरो वो युष्मदीयेन ब्रह्मणा स्तोत्रेण पितॄणां जुष्टी प्रीतिर्भवति पितॄणामित्यनेन पारोक्ष्येण वसिष्ठस्यैवकीर्तनं अहं प्रीतोभवामीत्यर्थः । अथेदानीं स्वमाश्रमं गन्तुमुद्यतोहं अक्षं रथस्याक्षं अव्ययं व्ययामि लडर्थेलङ् चालयामीत्यर्थः । यूयं न किल रिषथ नचक्षीणाभवथ हे वसिष्ठाः यद्यस्माच्छक्वरीष्वृक्षु बृहता श्रेष्ठेन रवेण साम्ना इन्द्रे शुष्मं बलं अदधात अधारयत ॥ ४ ॥

7.33.5
उद्द्यामि॒वेत्तृ॒ष्णजो᳚ नाथि॒तासो॑दी᳚धयुर्दाशरा॒ज्ञे वृ॒तासः᳚ ।
वसि᳚ष्ठस्य स्तुव॒त इन्द्रो᳚ अश्रोदु॒रुं तृत्सु᳚भ्यो अकृणोदु लो॒कम् ॥
▶ पदपाठः (Word-by-word)
उत् । द्याम्॑इ᳚व । इत् । तृ॒ष्ण॑जः᳚ । ना॒थि॒तासः᳚ । अदी᳚धयुः । दा॒श॒॑रा॒ज्ञे । वृ॒तासः᳚ ।
वसि᳚ष्ठस्य । स्तु॒व॒तः । इन्द्रः᳚ । अ॒श्रो॒त् । उ॒रुम् । तृत्सु᳚॑भ्यः । अ॒कृ॒णो॒त् । ऊं॒ इति᳚ । लो॒कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तष्णजोजाततृष्णाः वृतासः तृत्सुभीराजभिर्वृताः नाथितासोवृष्टिं याचमाना वसिष्ठाः द्यामिव आदित्यमिवेन्द्रं दाशराज्ञे दशानां राज्ञां संग्रामे उददीधयुः उददीधयन् स्तुवतोवसिष्ठस्य स्तोत्रमिन्द्रः अश्रोदशृणोच्च उरुं विस्तीर्णं लोकं तृत्सुभ्योराजभ्यः अकृणोदकरोच्च अददाच्चेत्यर्थः इदपरणौ ॥ ५ ॥

7.33.6
द॒ण्डा इ॒वेद्गो॒अज᳚नास आस॒न्परि᳚च्छिन्ना भर॒ता अ᳚र्भ॒कासः᳚ ।
अभ᳚वच्च पुरए॒ता वसि᳚ष्ठ॒ आदित्तृत्सू᳚नां॒ विशो᳚ अप्रथन्त ॥
▶ पदपाठः (Word-by-word)
द॒ण्डाः॑इ᳚व । इत् । गो॒॑अज᳚नासः । आ॒स॒न् । परि᳚॑छिन्नाः । भ॒र॒ताः । अ॒र्भ॒कासः᳚ ।
अभ᳚वत् । च॒ । पु॒रः॒॑ए॒ता । वसि᳚ष्ठः । आत् । इत् । तृत्सू᳚नाम् । विशः᳚ । अ॒प्र॒थ॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोअजनासो गवां प्रेरका दंडाइव यथादंडाः परिच्छिन्नपत्रोपशाखाभवन्ति तद्वद्भरताः तृत्सूनामेव राज्ञां भरता इतिनामान्तरेणोपादानं शत्रुभिः परिच्छिन्ना एवासन् इत् एवकारार्थः अर्भकासोर्भका अल्पाश्चासन् आदित् परिच्छिन्नत्वादन्तरमेव तेषां तृत्सूनां वसिष्ठः पुरएता पुरोहितोभवच्च तत्पौरोहित्य सामर्थ्यात् तृत्सूनां विशः प्रजाः अप्रथन्त अवर्धयन्त ॥ ६ ॥

7.33.7
त्रयः᳚ कृण्वन्ति॒ भुव᳚नेषु॒ रेत᳚स्ति॒स्रः प्र॒जा आर्या॒ ज्योति᳚रग्राः ।
त्रयो᳚ घ॒र्मास᳚ उ॒षसं᳚ सचन्ते॒ सर्वा{4}॒ इत्ता{4} अनु᳚ विदु॒र्वसि᳚ष्ठाः ॥
▶ पदपाठः (Word-by-word)
त्रयः᳚ । कृ॒ण्व॒न्ति॒ । भुव᳚नेषु । रेतः᳚ । ति॒स्रः । प्र॒॑जाः । आर्याः᳚ । ज्योतिः᳚॑अग्राः ।
त्रयः᳚ । घ॒र्मासः᳚ । उ॒षस᳚म् । स॒च॒न्ते॒ । सर्वा᳚न् । इत् । तान् । अनु᳚ । वि॒दुः॒ । वसि᳚ष्ठाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

भुवनेषु पृथिव्यंतरिक्षद्युक्षु त्रयोग्निवायुसूर्याः यथाक्रमेण रेतो विश्वस्य धारकमुदकं कृण्वन्ति कुर्वन्ति तेषां त्रयाणां ज्योतिरग्रा आदित्य- प्रमुखा आर्याः श्रेष्ठाः तिस्रः प्रजाभवन्ति तेच त्रयोग्निवायुसूर्याः घर्मासो दीप्यमानाः उषसं सचन्ते समवयन्ति दुर्ज्ञानान् सर्वानित् सर्वा- नेवा तान् वसिष्ठा अनुविदुः अभिजानन्ति तेषां रहस्यविज्ञानादियमपि वसिष्ठानामेवस्तुतिः तथाच शाट्यायनकं-त्रयःकृण्वन्ति भुवनेषुरेतइत्यग्निः पृथिव्यां रेतःकृणोति वायुरन्तरिक्ष आदित्योदिवि तिस्रः प्रजाआर्याज्योतिरग्राइति वसवोरुद्राआदित्यास्तासां ज्योति- र्यदसावादित्यः त्रयोघर्मासउषसंसचन्तइत्यग्निरुषसं सचते वायुरुषसं सचते आदित्यउषसं सचतइति ॥ ७ ॥

7.33.8
सूर्य᳚स्येव व॒क्षथो॒ ज्योति᳚रेषां समु॒द्रस्ये᳚व महि॒मा ग᳚भी॒रः ।
वात᳚स्येव प्रज॒वो नान्येन॒ स्तोमो᳚ वसिष्ठा॒ अन्वे᳚तवे वः ॥
▶ पदपाठः (Word-by-word)
सूर्य᳚स्य॑इव । व॒क्षथः᳚ । ज्योतिः᳚ । ए॒षा॒म् । स॒मु॒द्रस्य᳚॑इव । म॒हि॒मा । ग॒भी॒रः ।
वात᳚स्य॑इव । प्र॒॑ज॒वः । न । अ॒न्येन᳚ । स्तोमः᳚ । व॒सि॒ष्ठाः॒ । अनु᳚॑एतवे । वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसिष्ठाः एषां वोयुष्माकं स्तोमोमहिमापिवा सूर्यस्यज्योतिरिव वक्षथः प्रकाशोस्ति हे वसिष्ठावोयुष्माकं महिमा स्तोमोपिवा समुद्र- स्येव गभीरोस्ति तथा हे वसिष्ठाः एषां वोयुष्माकं स्तोमोऋक्समूहः महिमापिवा वातस्येव प्रजवः यथा वातस्य प्रवेगोन्येनान्वेतुं नशक्यः तद्वदन्येन तव महिमाअन्वेतवेअन्वेतं न शक्यः ॥ ८ ॥

7.33.9
त इन्नि॒ण्यं हृद᳚यस्य प्रके॒तैः स॒हस्र᳚वल्शम॒भि सं च᳚रन्ति ।
य॒मेन᳚ त॒तं प᳚रि॒धिं वय᳚न्तो॑प्स॒रस॒ उप᳚ सेदु॒र्वसि᳚ष्ठाः ॥
▶ पदपाठः (Word-by-word)
ते । इत् । नि॒ण्यम् । हृद᳚यस्य । प्र॒॑के॒तैः । स॒हस्र᳚॑वल्शम् । अ॒भि । सम् । च॒र॒न्ति॒ ।
य॒मेन᳚ । त॒तम् । प॒रि॒॑धिम् । वय᳚न्तः । अ॒प्स॒रसः᳚ । उप᳚ । से॒दुः॒ । वसि᳚ष्ठाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तइत् तएव वसिष्ठाः निण्यं तिरोहितं दुर्ज्ञानं निण्यं सस्वरित्यंतर्हितनामसु पाठात् सहस्रवल्शं सहस्रशाखं संसारं हृदयस्य प्रकेतैः प्रज्ञानै- रभिसंचरन्ति एवं स्वाच्छन्द्येनाभिसंचरन्तस्तेवसिष्ठाः यमेनकारणात्मना सर्वनियंत्रा ततं विस्तृतं परिधिं वस्त्रं परिधिरित्येनन जन्मा- दिप्रवाहोविवक्षितः तं वयंतोऽप्सरसो जननीत्वेनोपसेदुः । अत्र वसिष्ठाइति बहुवचनं पूजायां वसिष्ठः पूर्वं प्रजापतेरुत्पन्नं देहमुत्सृज्या- प्सरस्सु जायेयेति बुद्धिमकरोदितिभावः ॥ ९ ॥

7.33.10
वि॒द्युतो॒ ज्योति॒ः परि᳚ सं॒जिहा᳚नं मि॒त्रावरु᳚णा॒ यदप᳚श्यतां त्वा ।
तत्ते॒ जन्मो॒तैकं᳚ वसिष्ठा॒गस्त्यो॒ यत्त्वा᳚ वि॒श आ᳚ज॒भार᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒॑द्युतः᳚ । ज्योतिः᳚ । परि᳚ । स॒म्॑जिहा᳚नम् । मि॒त्रावरु᳚णा । यत् । अप᳚श्यताम् । त्वा॒ ।
तत् । ते॒ । जन्म᳚ । उ॒त । एक᳚म् । व॒सि॒ष्ठ॒ । अ॒गस्त्यः᳚ । यत् । त्वा॒ । वि॒शः । आ॒॑ज॒भार᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतास्वृक्षु वसिष्ठस्यैव देहपरिग्रहः प्रतिपाद्यते एताश्चेन्द्रस्य वाक्यमित्येके वर्णयन्ति अपरे वसिष्ठपुत्राणामिति । हे वसिष्ठ यद्यदा विद्यु- तोविद्युतइव स्वीयं ज्योतिः देहान्तरपरिग्रहार्थं परिसंजिहानं परित्यजन्तं त्वा त्वां छान्दसमात्मनेपदं यद्वा जिघृक्षितदेहार्थं स्वीयं ज्योतिः परिसंजिहानं परिजिघृक्षन्तमित्यर्थः । अस्मिन् पक्षे जहातेर्गत्यर्थत्वादात्मनेपदं छान्दसं न भवति । मित्रावरुणा मित्रावरुणौ अपश्यतां आवाभ्यामयंजायेतेति समकल्पतामित्यर्थः तत्तदा ते तवैकं जन्म उतापिच यद्यदा आगस्त्योविशोनिवेशनान्मित्रावरुणावावां जनयिष्याव इत्येतस्मात्पूर्वावस्थानात् त्वा त्वामाजभार आजहार ॥ १० ॥

7.33.11 समानपद
उ॒तासि᳚ मैत्रावरु॒णो व᳚सिष्ठो॒र्वश्या᳚ ब्रह्म॒न्मन॒सो॑धि᳚ जा॒तः ।
द्र॒प्सं स्क॒न्नं ब्रह्म᳚णा॒ दैव्ये᳚न॒ विश्वे᳚ दे॒वाः पुष्क᳚रे त्वाददन्त ॥
▶ पदपाठः (Word-by-word)
उ॒त । अ॒सि॒ । मै॒त्रा॒व॒रु॒णः । व॒सि॒ष्ठ॒ । उ॒र्वश्याः᳚ । ब्र॒ह्म॒न् । मन᳚सः । अधि᳚ । जा॒तः ।
द्र॒प्सम् । स्क॒न्नम् । ब्रह्म᳚णा । दैव्ये᳚न । विश्वे᳚ । दे॒वाः । पुष्क᳚रे । त्वा॒ । अ॒द॒द॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे वसिष्ठ मैत्रावरुण मित्रावरुणयोः पुत्रोसि हे ब्रह्मन् वसिष्ठ उर्वश्याअप्सरसोमनसोममायं पुत्रःस्यादिति ईदृशात्संकल्पात् द्रप्सं रेतोमित्रावरुणयोरुर्वशीदर्शनात् स्कन्नमासीत् तस्मादधिजातोसि । तथा च वक्ष्यते सत्रेहजातावित्यृचि । एवं जातं त्वा त्वां दैव्येन देवसंबन्धिना ब्रह्मणा वेदराशिना अहंभुवा युक्तं पुष्करे विश्वेदेवा अददन्तअधारयंत । तथा चादितोर्मित्रावरुणौ जज्ञाते इति प्रकृत्य पठ्यते-तयोरादित्ययोःसत्रेदृष्ठ्वाप्सरसमुर्वशीम् । रेतश्चस्कंदतत्कुंभेन्यपतद्वासतीवरे ॥ १ ॥ तेनैवतुमुहूर्तेन वीर्यवंतौतपस्विनौ । अगस्त्य- श्चवसिष्ठश्चतत्रर्षीसंबभूवतुः ॥ २ ॥ बहुधापतितं रेतः कलशेचजलेस्थले । स्थलेवसिष्ठस्तुमुनिः संभूतऋषिसत्तमः ॥ ३ ॥ कुंभेत्वगस्त्यः संभूतो जलेमत्स्योमहाद्युतिः । उदियायततोगस्त्यः शम्यामात्रोमहातपाः ॥ ४ ॥ मानेनसंमितोयस्मात्तस्मान्मान्यइहोच्यते । यद्वा कुंभादृ- षिर्जातः कुंभेनापिहिमीयते ॥ ५ ॥ कुंभइत्यभिधानंच परिमाणंचलक्ष्यते । ततोप्सुगृह्यमाणासु वसिष्ठःपुष्करेस्थितः ॥ ६ ॥ सर्वतःपुष्करेतंहि विश्वेदेवाअधारयन्निति ॥ ११ ॥

7.33.12
स प्र᳚के॒त उ॒भय᳚स्य प्रवि॒द्वान्त्स॒हस्र᳚दान उ॒त वा॒ सदा᳚नः ।
य॒मेन᳚ त॒तं प᳚रि॒धिं व᳚यि॒ष्यन्न᳚प्स॒रस॒ः परि᳚ जज्ञे॒ वसि᳚ष्ठः ॥
▶ पदपाठः (Word-by-word)
सः । प्र॒॑के॒तः । उ॒भय᳚स्य । प्र॒॑वि॒द्वान् । स॒हस्र᳚॑दानः । उ॒त । वा॒ । स॑दा᳚नः ।
य॒मेन᳚ । त॒तम् । प॒रि॒॑धिम् । व॒यि॒ष्यन् । अ॒प्स॒रसः᳚ । परि᳚ । ज॒ज्ञे॒ । वसि᳚ष्ठः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सः वसिष्ठः प्रकेतः प्रकृष्टज्ञानः उभयस्य उभयं दिवं च पृथिवीं च विद्वान् प्रकर्षेण जानन् सहस्रदानोभवत् किमनेन सहस्रदानइति विशेषणेन उत वा अपि वा सदानः सर्वदानसहितएवाभवत् । किं च वसिष्ठोयमेनकारणात्मना सर्वनियंत्रा ततं विस्तृतं परिधिं वस्त्रं परिधिरित्यनेन संसारप्रवाहोविवक्षितः तं वयिष्यन् अप्सरसः उर्वश्याः परितिपंचम्यर्थानुवादः जज्ञेजातः ॥ १२ ॥

7.33.13
स॒त्रे ह᳚ जा॒तावि᳚षि॒ता नमो᳚भिः कु॒म्भे रेतः᳚ सिषिचतुः समा॒नम् ।
ततो᳚ ह॒ मान॒ उदि᳚याय॒ मध्या॒त्ततो᳚ जा॒तमृषि᳚माहु॒र्वसि᳚ष्ठम् ॥
▶ पदपाठः (Word-by-word)
स॒त्रे । ह॒ । जा॒तौ । इ॒षि॒ता । नमः᳚॑भिः । कु॒म्भे । रेतः᳚ । सि॒सि॒च॒तुः॒ । स॒मा॒नम् ।
ततः᳚ । ह॒ । मानः᳚ । उत् । इ॒या॒य॒ । मध्या᳚त् । ततः᳚ । जा॒तम् । ऋषि᳚म् । आ॒हुः॒ । वसि᳚ष्ठम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्रे बहुकर्तृके यागे हेतिपूरणः जातौ दीक्षितौ मित्रावरुणौ इषिताध्येषितौ स्वयमन्यैर्जनैर्नमोभिः स्तुतिभिः कुंभेवासतीवरे कलशे समा- नमेकदैव रेतः सिषिचतुः असिंचतां ततोवासतीवरात् कुंभात् मध्यादगस्त्योमानः शमीप्रमाणउदियाय प्रादुर्बभूव ततएव कुंभाद्वसिष्ठम- प्यषिंजातमाहुः हेतिपूरणः ॥ १३ ॥

7.33.14
उ॒क्थ॒भृतं᳚ साम॒भृतं᳚ बिभर्ति॒ ग्रावा᳚णं॒ बिभ्र॒त्प्र व᳚दा॒त्यग्रे᳚ ।
उपै᳚नमाध्वं सुमन॒स्यमा᳚ना॒ आ वो᳚ गच्छाति प्रतृदो॒ वसि᳚ष्ठः ॥
▶ पदपाठः (Word-by-word)
उ॒क्थ॒॑भृत᳚म् । सा॒म॒॑भृत᳚म् । बि॒भ॒र्ति॒ । ग्रावा᳚णम् । बिभ्र᳚त् । प्र । व॒दा॒ति॒ । अग्रे᳚ ।
उप᳚ । ए॒न॒म् । आ॒ध्व॒म् । सु॒॑म॒न॒स्यमा᳚नाः । आ । वः॒ । ग॒च्छा॒ति॒ । प्र॒॑तृ॒दः॒ । वसि᳚ष्ठः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रतृदः प्रतृदइति तृत्सवएवाभिधीयन्ते नामान्तरेण वोयुष्मान् वसिष्ठआगच्छाति आ गच्छति एनं वसिष्ठं सुमनस्यमानाः सुमनसःसन्त उपाध्वं उपाध्वं उपतिष्ठत आगतश्चासौवसिष्ठोयज्ञे अग्रे पुरोहितोब्रह्मासन् उक्थभृतं शस्त्राणां संभक्तारं बिभर्ति सामभृतं उद्गातारं बिभर्ति ग्रावाणमभिषवणं बिभ्रतं बिभ्रतं अध्वर्युं च बिभर्ति प्रवदाति यज्ञे यत्प्रवदितव्यं भ्रेषादिनिमित्ते कर्तव्त्यमस्ति तदपि वदतीति तृत्सून् प्रतीन्द्रोब्रवीति ॥ १४ ॥

तृतीयेनुवाके द्वाविंशतिसूक्तानि तत्रप्रशुक्रेति पंचविंशत्यृचं प्रथमं सूक्तं अत्रेयमनुक्रमणिका-प्रशुका पंचाधिका वैश्वदेवं हाद्याएकविंश- तिर्द्विपदा अच्चामहेरर्धर्च उत्तरोहिर्बुध्र्यायेति । वसिष्ठऋषिः आद्याएकविंशतिर्द्विपदा विंशत्यक्षराविराजः द्वाविंशाद्याश्चतस्रस्त्रिष्टुभः विश्वेदेवादेवता । व्यूह्ळेदशरात्रे चतुर्थेहनि वैश्वदेवशस्त्रे सूक्तं वैश्वदेवनिविद्धानं सूत्रितंच-प्रशुकैत्विति वैश्वदेवमिति । षोडशिनि आधू- र्ष्वस्माइति द्विपदाइति । महाव्रतेप्येषा द्विपदा तथैवपंचमारण्यकेसूत्रितं-आधूर्ष्वस्माइत्येका सूददोहा इति ।