अ॒ना॒गा॒स्त्वे अ᳚दिति॒त्वे तु॒रास᳚ इ॒मं य॒ज्ञं द᳚धतु॒ श्रोष᳚माणाः ॥
पदपाठः (Word-by-word)
अ॒ना॒गाः॑त्वे । अ॒दि॒ति॒॑त्वे । तु॒रासः᳚ । इ॒मम् । य॒ज्ञम् । द॒ध॒तु॒ । श्रोष᳚माणाः ॥
सायणभाष्यम् (Sayana Commentary)
आदित्यानां अदितेःपुत्राणां एतत्संज्ञकानां देवानां अवसा रक्षणेन तद्धेतुभूतेनेत्यर्थः नूतनेनाद्यतनेन शंतमेन शंसुखं अतिशयेन तत्करणेन शर्मणा शर्मेति गृहनामैतत् गृहेण सक्षीमहि वयं संगच्छेमहि तुरासः तुराः त्वरिताआदित्याः श्रोषमाणाः अस्मदीयानि स्तोत्राणि शृण्व- न्तः यज्ञं यष्टारमिमं जनं अनागास्त्वे अनपराधत्वेच अदितित्वे अदीनत्वेच दधतु स्थापयन्तु ॥ १ ॥ आदित्यासोअदितिरित्यादित्यग्रहस्य याज्या सूत्रितं च-आदित्यासोअदितिर्मादयन्तामिति नैतंग्रहमीक्षेत हूयमानमिति ।