श्रवणम्

7.51.3
आ॒दि॒त्या विश्वे᳚ म॒रुत᳚श्च॒ विश्वे᳚ दे॒वाश्च॒ विश्व᳚ ऋ॒भव᳚श्च॒ विश्वे᳚ ।
इन्द्रो᳚ अ॒ग्निर॒श्विना᳚ तुष्टुवा॒ना यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ॒दि॒त्याः । विश्वे᳚ । म॒रुतः᳚ । च॒ । विश्वे᳚ । दे॒वाः । च॒ । विश्वे᳚ । ऋ॒भवः᳚ । च॒ । विश्वे᳚ ।
इन्द्रः᳚ । अ॒ग्निः । अ॒श्विना᳚ । तु॒स्तु॒वा॒नाः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदित्याः अदितेः पुत्राः विश्वे सर्वे द्वादशसंख्याकार्काः विश्वे मरुतश्च सर्वे एकोनपंचाशत् संख्योपेताश्च विश्वेदेवाश्च विशे ऋभवश्च इन्द्रोग्निः अश्विना अश्विनौ एतत् संज्ञकाः एवंभूतायेदेवाः तुष्टुवानाः अस्माभिः स्तुताः बभूवुः सर्वे ते देवाः यूयं सदा सर्वदा नोस्मान् स्वस्तिभिः कल्याणैः पात रक्षत ॥ ३ ॥

आदित्यासोअदितयइति तृचात्मकमेकोनविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमादित्यदेवताकं आदित्यासइत्यनुक्रमणिका । गतोवि- नियोगः ।