सप्तमं मण्डलम् - सूक्तम् 64

5 ऋचः

ऋषिः: वसिष्ठः देवता: मित्रावरुणौ छन्दः: त्रिष्टुप्

सूक्तम् 7.64 - सम्पूर्णम्

1 / 5
ऋक्: 7.64.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
7.64.1 समानपद
दि॒वि क्षय᳚न्ता॒ रज᳚सः पृथि॒व्यां प्र वां᳚ घृ॒तस्य᳚ नि॒र्णिजो᳚ ददीरन् ।
ह॒व्यं नो᳚ मि॒त्रो अ᳚र्य॒मा सुजा᳚तो॒ राजा᳚ सुक्ष॒त्रो वरु᳚णो जुषन्त ॥
▶ पदपाठः (Word-by-word)
दि॒वि । क्षय᳚न्ता । रज᳚सः । पृ॒थि॒व्याम् । प्र । वा॒म् । घृ॒तस्य᳚ । निः॒॑निजः᳚ । द॒दी॒र॒न् ।
ह॒व्यम् । नः॒ । मि॒त्रः । अ॒र्य॒मा । सु॑जा᳚तः । राजा᳚ । सु॒॑क्ष॒त्रः । वरु᳚णः । जु॒ष॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवि द्युलोकेन्तरिक्षे पृथिव्यांच वर्तमानस्य रजसः उदकस्य क्षयन्ता क्षयतिरैश्वर्यकर्मा स्वामिनौ भवथः हे मित्रावरुणौ वां युवाभ्यां प्रेरितामेघाःघृतस्यनिर्णिजः उदकस्यरूपाणिददीरन् ददते प्रयच्छन्ति अथवा वां युवाभ्यां घृतस्य निर्णिजः रूपाणि घृतानीत्यर्थः तानि ददीरन् दीयन्ते नोस्माकं संबन्धि हव्यं मित्रः सुजातः सुष्ठुप्रादुर्भूतः अर्यमाराजा सर्वस्य स्वामी सुक्षत्रः शोभनबलोवरुणश्चैते जुषन्त सेवन्ताम् ॥ १ ॥

7.64.2 समानपद
आ रा᳚जाना मह ऋतस्य गोपा॒ सिन्धु᳚पती क्षत्रिया यातम॒र्वाक् ।
इळां᳚ नो मित्रावरुणो॒त वृ॒ष्टिमव᳚ दि॒व इ᳚न्वतं जीरदानू ॥
▶ पदपाठः (Word-by-word)
आ । रा॒जा॒ना॒ । म॒हः॒ । ऋ॒त॒स्य॒ । गो॒पा॒ । सिन्धु᳚पती॒ इति॒ सिन्धु᳚॑पती । क्ष॒त्रि॒या॒ । या॒त॒म् । अ॒र्वाक् ।
इळा᳚म् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । वृ॒ष्टिम् । अव᳚ । दि॒वः । इ॒न्व॒त॒म् । जी॒र॒दा॒नू॒ इति᳚ जीर॑दानू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजाना सर्वस्यस्वामिनौ हे महोमहत ऋतस्योदकस्य यज्ञस्य गोपा गोपायितारौ सुबामन्त्रितेपराङ्गवत्स्वरेइति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य निघातत्वम् । हे सिन्धुपती नद्याः पालयितारौ हे क्षत्रिया बलवन्तौ युवां अर्वागस्मदभिमुखं आयातमागच्छ- तम् । किंच हे मित्रावरुणा मित्रावरुणौ हे जीरदानू क्षिप्रदानौ युवां नोस्मभ्यं इळामन्नं उतापिच पुष्टिं तत्साधकां वृष्टिं च दिवोन्तरि- क्षात् अव अवस्तात् इन्वतं प्रेरयतम् ॥ २ ॥

7.64.3
मि॒त्रस्तन्नो॒ वरु᳚णो दे॒वो अ॒र्यः प्र साधि᳚ष्ठेभिः प॒थिभि᳚र्नयन्तु ।
ब्रव॒द्यथा᳚ न॒ आद॒रिः सु॒दास᳚ इ॒षा म᳚देम स॒ह दे॒वगो᳚पाः ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । तत् । नः॒ । वरु᳚णः । दे॒वः । अ॒र्यः । प्र । साधि᳚ष्ठेभिः । प॒थि॑भिः᳚ । न॒य॒न्तु॒ ।
ब्रव᳚त् । यथा᳚ । नः॒ । आत् । अ॒रिः । सु॒॑दासे᳚ । इ॒षा । म॒दे॒म॒ । स॒ह । दे॒व॑गो᳚पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रोवरुणोदेवोर्योर्यमा चैते त्रयोपि नोस्मान् तत् तदा यदास्माकं अपेक्षितं तदा साधिष्ठेभिः साधकतमैः पथिभिर्मार्गैः प्रणयन्तु किंच नोस्मान् सुदासे शोभनदानाय जनाय अरिरर्यमा यथा ब्रवत् असौ अनुकंप्यइति ब्रूयात् तथा कुर्वन्तु अर्यम्णः पुनरभिधानमादरार्थं देवगोपाः देवायूयं गोपायितारोयेषामस्माकं ते वयं इषा युष्माभिर्दातव्येनान्नेन सह पुत्रादिसहिता मदेम हृष्येम ॥ ३ ॥

7.64.4
यो वां॒ गर्तं॒ मन᳚सा॒ तक्ष᳚दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव᳚द्धा॒रय᳚च्च ।
उ॒क्षेथां᳚ मित्रावरुणा घृ॒तेन॒ ता रा᳚जाना सुक्षि॒तीस्त᳚र्पयेथाम् ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । गर्त᳚म् । मन᳚सा । तक्ष᳚त् । ए॒तम् । ऊ॒र्ध्वाम् । धी॒तिम् । कृ॒णव᳚त् । धा॒रय᳚त् । च॒ ।
उ॒क्षेथा᳚म् । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तेन᳚ । ता । रा॒जा॒ना॒ । सु॒॑क्षि॒तीः । त॒र्प॒ये॒था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ योवां युवयोरेतं गर्तं रथं मनसा तक्षत् स्तोमेन संकल्पयेत् तथा कृत्वा ऊर्धां उन्नतां धीतिं कर्म स्तुतिरूपं कृणवत् कुर्यात् उज्वैः स्तुयात् एवं कृत्वा धारयञ्च यागे धारयेत् हे राजाना स्वामिनौ मित्रावरुणा मित्रावरुणौ ता तौ युवां जनं घृतेनोदकेन उक्षेथां सिंचतं तस्मै सुक्षितीः शोभननिवासाः प्रजाः तर्पयेथां यथा सुक्षितयोभवन्ति तथातर्पयेथामिति ॥ ४ ॥

7.64.5
ए॒ष स्तोमो᳚ वरुण मित्र॒ तुभ्यं॒ सोमः᳚ शु॒क्रो न वा॒यवे᳚॑यामि ।
अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्तोमः᳚ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य᳚म् । सोमः᳚ । शु॒क्रः । न । वा॒यवे᳚ । अ॒या॒मि॒ ।
अ॒वि॒ष्टम् । धियः᳚ । जि॒गृ॒तम् । पुर᳚म्॑धीः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया स्तुतिमुपसंहरति हे वरुण हे मित्र तुभ्यं युवयोः वायवे वायुर्गन्ता आदित्यः सएवार्यमा तस्मै च एषः स्तोमः स्तवः अयामि अकारि किमिव शुक्रः दीप्तः सोमोन युष्मभ्यं प्रीतिकरः सोमोयथा दीयते तद्वत् धियः कर्माण्यस्मदीयानि अविष्टं रक्षतम् पुरन्धीः स्तुतीः जिगृतं प्रबुध्यतम् । अन्यद्गतम् ॥ ५ ॥

प्रतिवां सूरइति पञ्चर्चं दशमं सूक्तं वसिष्ठस्यार्षं मैत्रावरुणं प्रतिवामित्यनुक्रान्तम् द्वितीयेछन्दोमे प्रउगशस्त्रेप्येषस्तृचः सूत्रितंच- प्रतिवांसूरउदितेसूक्तैर्धेनुः प्रत्नस्येति ।