दि॒वि क्षय᳚न्ता॒ रज᳚सः पृथि॒व्यां प्र वां᳚ घृ॒तस्य᳚ नि॒र्णिजो᳚ ददीरन् ।
ह॒व्यं नो᳚ मि॒त्रो अ᳚र्य॒मा सुजा᳚तो॒ राजा᳚ सुक्ष॒त्रो वरु᳚णो जुषन्त ॥
ह॒व्यं नो᳚ मि॒त्रो अ᳚र्य॒मा सुजा᳚तो॒ राजा᳚ सुक्ष॒त्रो वरु᳚णो जुषन्त ॥
पदपाठः (Word-by-word)
दि॒वि । क्षय᳚न्ता । रज᳚सः । पृ॒थि॒व्याम् । प्र । वा॒म् । घृ॒तस्य᳚ । निः॒॑निजः᳚ । द॒दी॒र॒न् ।
ह॒व्यम् । नः॒ । मि॒त्रः । अ॒र्य॒मा । सु॑जा᳚तः । राजा᳚ । सु॒॑क्ष॒त्रः । वरु᳚णः । जु॒ष॒न्त॒ ॥
ह॒व्यम् । नः॒ । मि॒त्रः । अ॒र्य॒मा । सु॑जा᳚तः । राजा᳚ । सु॒॑क्ष॒त्रः । वरु᳚णः । जु॒ष॒न्त॒ ॥
सायणभाष्यम् (Sayana Commentary)
दिवि द्युलोकेन्तरिक्षे पृथिव्यांच वर्तमानस्य रजसः उदकस्य क्षयन्ता क्षयतिरैश्वर्यकर्मा स्वामिनौ भवथः हे मित्रावरुणौ वां युवाभ्यां प्रेरितामेघाःघृतस्यनिर्णिजः उदकस्यरूपाणिददीरन् ददते प्रयच्छन्ति अथवा वां युवाभ्यां घृतस्य निर्णिजः रूपाणि घृतानीत्यर्थः तानि ददीरन् दीयन्ते नोस्माकं संबन्धि हव्यं मित्रः सुजातः सुष्ठुप्रादुर्भूतः अर्यमाराजा सर्वस्य स्वामी सुक्षत्रः शोभनबलोवरुणश्चैते जुषन्त सेवन्ताम् ॥ १ ॥