श्रवणम्

7.64.5
ए॒ष स्तोमो᳚ वरुण मित्र॒ तुभ्यं॒ सोमः᳚ शु॒क्रो न वा॒यवे᳚॑यामि ।
अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्तोमः᳚ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य᳚म् । सोमः᳚ । शु॒क्रः । न । वा॒यवे᳚ । अ॒या॒मि॒ ।
अ॒वि॒ष्टम् । धियः᳚ । जि॒गृ॒तम् । पुर᳚म्॑धीः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया स्तुतिमुपसंहरति हे वरुण हे मित्र तुभ्यं युवयोः वायवे वायुर्गन्ता आदित्यः सएवार्यमा तस्मै च एषः स्तोमः स्तवः अयामि अकारि किमिव शुक्रः दीप्तः सोमोन युष्मभ्यं प्रीतिकरः सोमोयथा दीयते तद्वत् धियः कर्माण्यस्मदीयानि अविष्टं रक्षतम् पुरन्धीः स्तुतीः जिगृतं प्रबुध्यतम् । अन्यद्गतम् ॥ ५ ॥

प्रतिवां सूरइति पञ्चर्चं दशमं सूक्तं वसिष्ठस्यार्षं मैत्रावरुणं प्रतिवामित्यनुक्रान्तम् द्वितीयेछन्दोमे प्रउगशस्त्रेप्येषस्तृचः सूत्रितंच- प्रतिवांसूरउदितेसूक्तैर्धेनुः प्रत्नस्येति ।