श्रवणम्

7.64.4
यो वां॒ गर्तं॒ मन᳚सा॒ तक्ष᳚दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव᳚द्धा॒रय᳚च्च ।
उ॒क्षेथां᳚ मित्रावरुणा घृ॒तेन॒ ता रा᳚जाना सुक्षि॒तीस्त᳚र्पयेथाम् ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । गर्त᳚म् । मन᳚सा । तक्ष᳚त् । ए॒तम् । ऊ॒र्ध्वाम् । धी॒तिम् । कृ॒णव᳚त् । धा॒रय᳚त् । च॒ ।
उ॒क्षेथा᳚म् । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तेन᳚ । ता । रा॒जा॒ना॒ । सु॒॑क्षि॒तीः । त॒र्प॒ये॒था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ योवां युवयोरेतं गर्तं रथं मनसा तक्षत् स्तोमेन संकल्पयेत् तथा कृत्वा ऊर्धां उन्नतां धीतिं कर्म स्तुतिरूपं कृणवत् कुर्यात् उज्वैः स्तुयात् एवं कृत्वा धारयञ्च यागे धारयेत् हे राजाना स्वामिनौ मित्रावरुणा मित्रावरुणौ ता तौ युवां जनं घृतेनोदकेन उक्षेथां सिंचतं तस्मै सुक्षितीः शोभननिवासाः प्रजाः तर्पयेथां यथा सुक्षितयोभवन्ति तथातर्पयेथामिति ॥ ४ ॥