सप्तमं मण्डलम् - सूक्तम् 25

6 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 7.25 - सम्पूर्णम्

1 / 6
ऋक्: 7.25.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
7.25.1 समानपद
आ ते᳚ म॒ह इ᳚न्द्रो॒त्यु᳚ग्र॒ सम᳚न्यवो॒ यत्स॒मर᳚न्त॒ सेना᳚ः ।
पता᳚ति दि॒द्युन्नर्य᳚स्य बा॒ह्वोर्मा ते॒ मनो᳚ विष्व॒द्र्य१॒᳚ग्वि चा᳚रीत् ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । म॒हः । इ॒न्द्र॒ । ऊ॒ती । उ॒ग्र॒ । स॑म᳚न्यवः । यत् । स॒म्॑अर᳚न्त । सेनाः᳚ ।
पता᳚ति । दि॒द्युत् । नर्य᳚स्य । बा॒ह्वोः । मा । ते॒ । मनः᳚ । वि॒ष्व॒द्र्य᳚क् । वि । चा॒री॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उग्र उद्गूर्ण ओजस्विन्निन्द्र यद्यदा समन्यवः समोमन्युरभिमानोयासां ताः समन्यवः सेनाः समरन्त युध्यन्ते युद्धार्थं संगच्छन्ते वा तदा नर्यस्य नरहितस्य महोमहतः ते तव बाह्वोः स्थितं विद्युदायुधं विद्युत् हेतिरिति वज्रनामसु पाठात् ऊती ऊत्यै अस्मद्रक्षायै आपताति आ पततु । ते तव विष्वड्मक् विष्वग्गन्तृमनः माविचारीत् अस्मास्वेव स्थिरं भवतु ॥ १ ॥

7.25.2 समानपद
नि दु॒र्ग इ᳚न्द्र श्नथिह्य॒मित्रा{4}᳚ अ॒भि ये नो॒ मर्ता᳚सो अ॒मन्ति᳚ ।
आ॒रे तं शंसं᳚ कृणुहि निनि॒त्सोरा नो᳚ भर स॒म्भर᳚णं॒ वसू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
नि । दुः॒॑गे । इ॒न्द्र॒ । श्न॒थि॒हि॒ । अ॒मित्रा᳚न् । अ॒भि । ये । नः॒ । मर्ता᳚सः । अ॒मन्ति᳚ ।
आ॒रे । तम् । शंस᳚म् । कृ॒णु॒हि॒ । नि॒नि॒त्सोः । आ । नः॒ । भ॒र॒ । स॒म्॑भर᳚णम् । वसू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र दुर्गे युद्धे ये मर्तासो मर्ताः अभि अभिमुखाः सन्तो नोस्मानमन्ति अभि भवन्ति तानमित्रान् शत्रून् निश्नथिहि निजहि । अपि च निनित्सोः अस्मान्निन्दितुमिच्छतो नरस्य तं शंसं आशंसनं आरे दूरे कृणुहि । अपि च नोस्मभ्यं वसूनां धनानां संभरणं समूहमाभर आ हर ॥ २ ॥

7.25.3 समानपद
श॒तं ते᳚ शिप्रिन्नू॒तयः᳚ सु॒दासे᳚ स॒हस्रं॒ शंसा᳚ उ॒त रा॒तिर᳚स्तु ।
ज॒हि वध᳚र्व॒नुषो॒ मर्त्य᳚स्या॒स्मे द्यु॒म्नमधि॒ रत्नं᳚ च धेहि ॥
▶ पदपाठः (Word-by-word)
श॒तम् । ते॒ । शि॒प्रि॒न् । ऊ॒तयः᳚ । सु॒॑दासे᳚ । स॒हस्र᳚म् । शंसाः᳚ । उ॒त । रा॒तिः । अ॒स्तु॒ ।
ज॒हि । वधः᳚ । व॒नुषः᳚ । मर्त्य᳚स्य । अ॒स्मे इति᳚ । द्यु॒म्नम् । अधि᳚ । रत्न᳚म् । च॒ । धे॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शिप्रिन् उष्णीषिन् इन्द्र ते त्वदीयाः शतं बह्व्यः ऊतयो रक्षाः सुदासे शोभनदानाय मह्यं सन्तु । सहस्रं शंसाः शंसनीयाःकामाश्च सन्तु । उतापिच रातिर्धनमस्तु । वनुषो हिंसकस्य मर्त्यस्य वधः हिंसासाधनमायुधं च जहि अपिचास्मै अधि अस्मासु द्युम्नं दीप्तिमदन्नं यशोवा रत्नं च धेहि । तथाच यास्कः-द्युम्नं द्योततेर्यशोवान्नंवा अस्मे द्युम्नमधिरत्नंच धेहि अस्मासु द्युम्नं च रत्नं च धेहीति ॥ ३ ॥

7.25.4
त्वाव᳚तो॒ ही᳚न्द्र॒ क्रत्वे॒ अस्मि॒ त्वाव᳚तो॑वि॒तुः शू᳚र रा॒तौ ।
विश्वेदहा᳚नि तविषीव उग्र{4}॒ ओकः᳚ कृणुष्व हरिवो॒ न म᳚र्धीः ॥
▶ पदपाठः (Word-by-word)
त्वा॑व᳚तः । हि । इ॒न्द्र॒ । क्रत्वे᳚ । अस्मि᳚ । त्वा॑व᳚तः । अ॒वि॒तुः । शू॒र॒ । रा॒तौ ।
विश्वा᳚ । इत् । अहा᳚नि । त॒वि॒षी॒॑वः॒ । उ॒ग्र॒ । ओकः᳚ । कृ॒णु॒ष्व॒ । ह॒रि॒॑वः॒ । न । म॒र्धीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वावतः त्वत्सदृशस्य क्रत्वे कर्मणे अस्मि भवामि हि । हे शूर अवितुः विश्वस्य रक्षितुस्त्वावतस्त्वत्सदृशस्य रातौ दाने च अस्मी- तिशेषः । हे तविषीवोबलवन् उग्र ओजस्विन्निन्द्र विश्वेत् विश्वान्येव अहानि ओकोस्माकं स्थानं कृणुष्व कुरु । हे हरिवो हरिवन् नमर्धीः अस्मान्नहिंस्याः ॥ ४ ॥

7.25.5
कुत्सा᳚ ए॒ते हर्य᳚श्वाय शू॒षमिन्द्रे॒ सहो᳚ दे॒वजू᳚तमिया॒नाः ।
स॒त्रा कृ᳚धि सु॒हना᳚ शूर वृ॒त्रा व॒यं तरु᳚त्राः सनुयाम॒ वाज᳚म् ॥
▶ पदपाठः (Word-by-word)
कुत्साः᳚ । ए॒ते । हर्यि᳚॑अश्वाय । शू॒षम् । इन्द्रे᳚ । सहः᳚ । दे॒व॑जू᳚तम् । इ॒या॒नाः ।
स॒त्रा । कृ॒धि॒ । सु॒॑हना᳚ । शू॒र॒ । वृ॒त्रा । व॒यम् । तरु᳚त्राः । स॒नु॒या॒म॒ । वाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते वयं वसिष्ठाः हर्यश्वाय हरिनामकाश्वायेन्द्राय शूषं सुखकरं स्तोत्रं कुत्साः कुर्वाणाः करोतेः कुत्सशब्दनिष्पत्तिः इन्द्रे देवजूतं देवैः प्रेरितं सहोबलमियानाः याचमानाः तरुत्राः दुर्गाणि तीर्णाः सन्तो वाजं बलं सनुयाम लभेमहि । अपि च हे शूर वृत्रा वृत्राणि शत्रून् सुहना हन्तुं सुशकानि सत्रा सर्वदा कृधि कुरु ॥ ५ ॥

7.25.6
ए॒वा न᳚ इन्द्र॒ वार्य᳚स्य पूर्धि॒ प्र ते᳚ म॒हीं सु᳚म॒तिं वे᳚विदाम ।
इषं᳚ पिन्व म॒घव᳚द्भ्यः सु॒वीरां᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । इ॒न्द्र॒ । वार्य᳚स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒॑म॒तिम् । वे॒वि॒दा॒म॒ ।
इष᳚म् । पि॒न्व॒ । म॒घव᳚त्॑भ्यः । सु॒॑वीरा᳚म् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयं व्याख्यातचरा ॥ ६ ॥

नसोमइन्द्रमिति पंचर्चं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रम्यते-नसोमः पंचेति । महाव्रते उक्तोविनियोगः ।