त्वाव᳚तो॒ ही᳚न्द्र॒ क्रत्वे॒ अस्मि॒ त्वाव᳚तो॑वि॒तुः शू᳚र रा॒तौ ।
विश्वेदहा᳚नि तविषीव उग्र{4}॒ ओकः᳚ कृणुष्व हरिवो॒ न म᳚र्धीः ॥
विश्वेदहा᳚नि तविषीव उग्र{4}॒ ओकः᳚ कृणुष्व हरिवो॒ न म᳚र्धीः ॥
पदपाठः (Word-by-word)
त्वा॑व᳚तः । हि । इ॒न्द्र॒ । क्रत्वे᳚ । अस्मि᳚ । त्वा॑व᳚तः । अ॒वि॒तुः । शू॒र॒ । रा॒तौ ।
विश्वा᳚ । इत् । अहा᳚नि । त॒वि॒षी॒॑वः॒ । उ॒ग्र॒ । ओकः᳚ । कृ॒णु॒ष्व॒ । ह॒रि॒॑वः॒ । न । म॒र्धीः॒ ॥
विश्वा᳚ । इत् । अहा᳚नि । त॒वि॒षी॒॑वः॒ । उ॒ग्र॒ । ओकः᳚ । कृ॒णु॒ष्व॒ । ह॒रि॒॑वः॒ । न । म॒र्धीः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वावतः त्वत्सदृशस्य क्रत्वे कर्मणे अस्मि भवामि हि । हे शूर अवितुः विश्वस्य रक्षितुस्त्वावतस्त्वत्सदृशस्य रातौ दाने च अस्मी- तिशेषः । हे तविषीवोबलवन् उग्र ओजस्विन्निन्द्र विश्वेत् विश्वान्येव अहानि ओकोस्माकं स्थानं कृणुष्व कुरु । हे हरिवो हरिवन् नमर्धीः अस्मान्नहिंस्याः ॥ ४ ॥