श्रवणम्

7.25.3 समानपद
श॒तं ते᳚ शिप्रिन्नू॒तयः᳚ सु॒दासे᳚ स॒हस्रं॒ शंसा᳚ उ॒त रा॒तिर᳚स्तु ।
ज॒हि वध᳚र्व॒नुषो॒ मर्त्य᳚स्या॒स्मे द्यु॒म्नमधि॒ रत्नं᳚ च धेहि ॥
▶ पदपाठः (Word-by-word)
श॒तम् । ते॒ । शि॒प्रि॒न् । ऊ॒तयः᳚ । सु॒॑दासे᳚ । स॒हस्र᳚म् । शंसाः᳚ । उ॒त । रा॒तिः । अ॒स्तु॒ ।
ज॒हि । वधः᳚ । व॒नुषः᳚ । मर्त्य᳚स्य । अ॒स्मे इति᳚ । द्यु॒म्नम् । अधि᳚ । रत्न᳚म् । च॒ । धे॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शिप्रिन् उष्णीषिन् इन्द्र ते त्वदीयाः शतं बह्व्यः ऊतयो रक्षाः सुदासे शोभनदानाय मह्यं सन्तु । सहस्रं शंसाः शंसनीयाःकामाश्च सन्तु । उतापिच रातिर्धनमस्तु । वनुषो हिंसकस्य मर्त्यस्य वधः हिंसासाधनमायुधं च जहि अपिचास्मै अधि अस्मासु द्युम्नं दीप्तिमदन्नं यशोवा रत्नं च धेहि । तथाच यास्कः-द्युम्नं द्योततेर्यशोवान्नंवा अस्मे द्युम्नमधिरत्नंच धेहि अस्मासु द्युम्नं च रत्नं च धेहीति ॥ ३ ॥