श्रवणम्

7.25.2 समानपद
नि दु॒र्ग इ᳚न्द्र श्नथिह्य॒मित्रा{4}᳚ अ॒भि ये नो॒ मर्ता᳚सो अ॒मन्ति᳚ ।
आ॒रे तं शंसं᳚ कृणुहि निनि॒त्सोरा नो᳚ भर स॒म्भर᳚णं॒ वसू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
नि । दुः॒॑गे । इ॒न्द्र॒ । श्न॒थि॒हि॒ । अ॒मित्रा᳚न् । अ॒भि । ये । नः॒ । मर्ता᳚सः । अ॒मन्ति᳚ ।
आ॒रे । तम् । शंस᳚म् । कृ॒णु॒हि॒ । नि॒नि॒त्सोः । आ । नः॒ । भ॒र॒ । स॒म्॑भर᳚णम् । वसू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र दुर्गे युद्धे ये मर्तासो मर्ताः अभि अभिमुखाः सन्तो नोस्मानमन्ति अभि भवन्ति तानमित्रान् शत्रून् निश्नथिहि निजहि । अपि च निनित्सोः अस्मान्निन्दितुमिच्छतो नरस्य तं शंसं आशंसनं आरे दूरे कृणुहि । अपि च नोस्मभ्यं वसूनां धनानां संभरणं समूहमाभर आ हर ॥ २ ॥