सप्तमं मण्डलम् - सूक्तम् 103

10 ऋचः

ऋषिः: वसिष्ठः देवता: मंडूकाः छन्दः: अनुष्टुप्

सूक्तम् 7.103 - सम्पूर्णम्

1 / 10
ऋक्: 7.103.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
7.103.1
सं॒व॒त्स॒रं श᳚शया॒ना ब्रा᳚ह्म॒णा व्र᳚तचा॒रिणः᳚ ।
वाचं᳚ प॒र्जन्य᳚जिन्वितां॒ प्र म॒ण्डूका᳚ अवादिषुः ॥
▶ पदपाठः (Word-by-word)
सं॒व॒त्स॒रम् । श॒श॒या॒नाः । ब्रा॒ह्म॒णाः । व्र॒त॒॑चा॒रिणः᳚ ।
वाच᳚म् । प॒र्जन्य᳚॑जिन्विताम् । प्र । म॒ण्डूकाः᳚ । अ॒वा॒दि॒षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र निरुक्तम्-वसिष्ठोवर्षकामः पर्जन्यं तुष्टाव तं मण्डूका अन्वमोदन्त समण्डूकाननुमोदमानान्दृष्ट्वा तुष्टावेति मण्डूकामज्जूकामज्जना- न्मदतेर्वामोदतिकर्मणोमन्दतेर्वातृप्तिकर्मणोमण्डयतेरिति वैय्याकरणामण्डएषामोकइतिवा मण्डो मदेर्वा मुदेर्वातेषमेषाभवतीति । व्रतचारिणः व्रतं संवत्सरसत्रात्मकं कर्म आचरन्तोब्राह्मणाः लुप्तोपममेतत् एवं भूताब्राह्मणाइव संवत्सरं शरत्प्रभृति आवर्षर्तोरेकं संवत्सरं शशयानाः शिश्यानाः वर्षणार्थं तपश्चरन्तइव बिलएव सन्तः एते मण्डूकाः पर्जन्यजिन्वितां पर्जन्येन प्रीतां यया वाचा पर्जन्यः प्रीतोभवति तादृशीं वाचं प्रावादिषुः प्रवदन्ति ॥ १ ॥

7.103.2
दि॒व्या आपो᳚ अ॒भि यदे᳚न॒माय॒न्दृतिं॒ न शुष्कं᳚ सर॒सी शया᳚नम् ।
गवा॒मह॒ न मा॒युर्व॒त्सिनी᳚नां म॒ण्डूका᳚नां व॒ग्नुरत्रा॒ समे᳚ति ॥
▶ पदपाठः (Word-by-word)
दि॒व्याः । आपः᳚ । अ॒भि । यत् । ए॒न॒म् । आय᳚न् । दृति᳚म् । न । शुष्क᳚म् । स॒र॒सी इति᳚ । शया᳚नम् ।
गवा᳚म् । अह᳚ । न । मा॒युः । व॒त्सिनी᳚नाम् । म॒ण्डूका᳚नाम् । व॒ग्नुः । अत्र᳚ । सम् । ए॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवा दिविभवाआपः दृतिं न दृतिमिव शुष्कं नीरसं सरसी महत्सरः सरसी गौरादिलक्षर्णोङीष् सरस्यां सुपांसुलुगिति सप्तम्यालुक् । ईदूतौचसप्तम्यर्थइति प्रगृह्यसंज्ञा । महति सरसि निर्जले घर्मकाले शयानं निवसन्तं एनं मण्डूकगणं यद्यदा आयन् अभिगच्छन्ति तदा अत्रास्मिन् वर्षणे पर्जन्ये वा सति वत्सिनीनां वत्सयुक्तानां गवां न मायुः गवां शब्दइव मण्डूकानां वग्नुः शब्दः समेति सङ्गच्छते तथा वत्सैः सङ्गतासु गोषु महान्घोषो जायते तद्वद्वृष्टे पर्जन्ये महान्कलकलशब्दो जायते इत्यर्थः । अहेति पूरकः ॥ २ ॥

7.103.3 समानपद
यदी᳚मेना{4} उश॒तो अ॒भ्यव᳚र्षीत्तृ॒ष्याव᳚तः प्रा॒वृष्याग᳚तायाम् ।
अ॒ख्ख॒ली॒कृत्या᳚ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वद᳚न्तमेति ॥
▶ पदपाठः (Word-by-word)
यत् । ई॒म् । ए॒ना॒न् । उ॒श॒तः । अ॒भि । अव᳚र्षीत् । तृ॒ष्या॑व᳚तः । प्रा॒वृषि᳚ । आ॑ग᳚तायाम् ।
अ॒ख्ख॒ली॒कृत्य᳚ । पि॒तर᳚म् । न । पु॒त्रः । अ॒न्यः । अ॒न्यम् । उप᳚ । वद᳚न्तम् । ए॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशतः कामयमानान् तृष्यावतः तृष्णावत एनान्मण्डूकान्प्रावृषि वर्षर्तौ आगतायां आगते सति यद्यदा अभ्यवर्षित् पर्जन्योजलैरभिषिञ्चति ईमिति पूरणः तदानीं अक्खलीकृत्य अक्खलइति शब्दानुकरणम् अक्खलशब्दं कृत्वा पुत्रः पितरं न पितरमिव अन्यो मंडूकः वदन्तं शब्दयन्तमन्यं मण्डूकं उपैति प्राप्नोति ॥ ३ ॥

7.103.4
अ॒न्यो अ॒न्यमनु᳚ गृभ्णात्येनोर॒पां प्र᳚स॒र्गे यदम᳚न्दिषाताम् ।
म॒ण्डूको॒ यद॒भिवृ᳚ष्ट॒ः कनि᳚ष्क॒न्पृश्नि᳚ः सम्पृ॒ङ्क्ते हरि᳚तेन॒ वाच᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒न्यः । अ॒न्यम् । अनु᳚ । गृ॒भ्णा॒ति॒ । ए॒नोः॒ । अ॒पाम् । प्र॒॑स॒र्गे । यत् । अम᳚न्दिषाताम् ।
म॒ण्डूकः᳚ । यत् । अ॒भि॑वृ᳚ष्टः । कनि᳚स्कन् । पृश्निः᳚ । स॒म्॑पृ॒ङ्क्ते । हरि᳚तेन । वाच᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एनोः एनयोर्द्वयोर्मण्डूकयोः अन्योमण्डूकः अन्यं मण्डूकं अनुगम्य गृभ्णाति गृह्णाति अपां उदकानां प्रसर्गे प्रसर्जने वर्षणे सति यद्यदा अमन्दिषातां हृष्टावभूताम् यद्यदा च अभिवृष्टः पर्जन्येनाभिषिक्तः कनिष्कन् स्कन्दयतेर्यङ्लुङन्तस्य रूपम् भृशं स्कन्दं उत्प्लवं कुर्वन्- पृश्निः पृश्निवर्णोमण्डूकः हरितेन हरितवर्णेनान्येन मण्डूकेन वाचं संपृङ्क्ते संयोजयत उभावपि एकविधं शब्दं कुर्वाते तदानीमन्यः अन्यमनुगृभ्णातीत्यन्वयः ॥ ४ ॥

7.103.5
यदे᳚षाम॒न्यो अ॒न्यस्य॒ वाचं᳚ शा॒क्तस्ये᳚व॒ वद᳚ति॒ शिक्ष᳚माणः ।
सर्वं॒ तदे᳚षां स॒मृधे᳚व॒ पर्व॒ यत्सु॒वाचो॒ वद᳚थ॒नाध्य॒प्सु ॥
▶ पदपाठः (Word-by-word)
यत् । ए॒षा॒म् । अ॒न्यः । अ॒न्यस्य᳚ । वाच᳚म् । शा॒क्तस्य᳚॑इव । वद᳚ति । शिक्ष᳚माणः ।
सर्व᳚म् । तत् । ए॒षा॒म् । स॒मृधा᳚॑इव । पर्व᳚ । यत् । सु॒॑वाचः᳚ । वद᳚थन । अधि᳚ । अ॒प्॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मण्डूकाः यद्यदा एषां युष्माकं मध्ये अन्योमण्डूकः अन्यस्य मण्डूकस्य वाचं वदत्यनुवदति अनुकरोति शिक्षमाणः शिक्ष्यमाणः शिष्यः शाक्तस्येव शक्तिमतः शिक्षकस्य वाचं यथा अनुवदति तद्वत् । यत् यदा च सुवाचः शोभवाचोयूयं सर्वे अप्सु वृष्टेपूदकेषु अध्युपरिप्लवन्तः वदथन वदत शब्दंकुरुत तत्तदा एषां युष्माकं सर्वं पर्व परुष्मत् शरीरं समृधेव समृद्धमेव अविकलावयवमेव भवति इव शब्दोवधारणे घर्मकाले मृद्भावमापन्नामण्डूकाः पुनर्वर्षणे सति अविकलांगाः प्रादुर्भवन्तीत्यर्थः ॥ ५ ॥

7.103.6
गोमा᳚यु॒रेको᳚ अ॒जमा᳚यु॒रेक॒ः पृश्नि॒रेको॒ हरि᳚त॒ एक᳚ एषाम् ।
स॒मा॒नं नाम॒ बिभ्र᳚तो॒ विरू᳚पाः पुरु॒त्रा वाचं᳚ पिपिशु॒र्वद᳚न्तः ॥
▶ पदपाठः (Word-by-word)
गो॑मा᳚युः । एकः᳚ । अ॒ज॑मा᳚युः । एकः᳚ । पृश्निः᳚ । एकः᳚ । हरि᳚तः । एकः᳚ । ए॒षा॒म् ।
स॒मा॒नम् । नाम᳚ । बिभ्र᳚तः । वि॑रू᳚पाः । पु॒रु॒॑त्रा । वाच᳚म् । पि॒पि॒शुः॒ । वद᳚न्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां मण्डूकानां मध्ये एकोमण्डूकः गोमायुः गोरिव मायुः शब्दोयस्य तादृशोभवति एकः अन्योमण्डूकः अजमायुः अजस्य मायुरिव मायुर्यस्य तादृशोभवति एकः पृश्निः पृश्निवर्णः एकोपरः हरितो हरितवर्णः एवं विरूपानानारूपाअपि समानमेकं मण्डूकाइति नाम बि- भ्रतोधारयन्तः पुरुत्रा बहुषु देशेषु वाचं वदन्तः शब्दं कुर्वन्तः पिपिशुः अवयवी भवन्ति प्रादुर्भवन्ति पिशअवयवे पुरुशब्दाद्देवमनुष्येत्या- दिनात्राप्रत्ययः ॥ ६ ॥

7.103.7 समानपद
ब्रा॒ह्म॒णासो᳚ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद᳚न्तः ।
सं॒व॒त्स॒रस्य॒ तदह॒ः परि᳚ ष्ठ॒ यन्म᳚ण्डूकाः प्रावृ॒षीणं᳚ ब॒भूव᳚ ॥
▶ पदपाठः (Word-by-word)
ब्रा॒ह्म॒णासः᳚ । अ॒ति॒॑रा॒त्रे । न । सोमे᳚ । सरः᳚ । न । पू॒र्णम् । अ॒भितः᳚ । वद᳚न्तः ।
सं॒व॒त्स॒रस्य᳚ । तत् । अह॒रिति᳚ । परि᳚ । स्थ॒ । यत् । म॒ण्डू॒काः॒ । प्रा॒वृ॒षीण᳚म् । ब॒भूव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रात्रिमतीत्य वतंते इत्यतिरात्रः अतिरात्रे न सोमे । यथा अतिरात्राख्ये सोमयागे ब्राह्मणासो ब्राह्मणाः रात्रौ स्तुतशस्त्राणि पर्यायेण शंसन्ति हे मण्डूकाः द्वितीयोनशब्दः संप्रत्यर्थे न सम्प्रति पूर्णं सरः अभितः सर्वतः तथा वदन्तः रात्रौ शब्दं कुर्वाणायूयं तदहः तद्दिनं परिष्ठ परितः सर्वतोभवथ यदहः प्रावृषीणं प्रावृषेण्यं प्रावृषिभवं बभूव तस्मिन्नहनि सर्वतोवर्तमानाभवथेत्यर्थः ॥ ७ ॥

7.103.8
ब्रा॒ह्म॒णासः᳚ सो॒मिनो॒ वाच᳚मक्रत॒ ब्रह्म᳚ कृ॒ण्वन्त᳚ः परिवत्स॒रीण᳚म् ।
अ॒ध्व॒र्यवो᳚ घ॒र्मिणः᳚ सिष्विदा॒ना आ॒विर्भ᳚वन्ति॒ गुह्या॒ न के चि᳚त् ॥
▶ पदपाठः (Word-by-word)
ब्रा॒ह्म॒णासः᳚ । सो॒मिनः᳚ । वाच᳚म् । अ॒क्र॒त॒ । ब्रह्म᳚ । कृ॒ण्वन्तः᳚ । प॒रि॒व॒त्स॒रीण᳚म् ।
अ॒ध्व॒र्यवः᳚ । घ॒र्मिणः᳚ । सि॒स्वि॒दा॒नाः । आ॒विः । भ॒व॒न्ति॒ । गुह्याः᳚ । न । के । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमिनः सोमयुक्ताः परिवत्सरीणं सांवत्सरिकं गावामयनिकं ब्रह्मस्तुतशस्त्रात्मकं कृण्वन्तः कुर्वन्तो ब्राह्मणासः लुप्तोपममेतत् ब्राह्मणाइव वाचं शब्दं अक्रत अकृषत इमे मण्डूकाः अपिच घर्मिणो घर्मेण प्रव् अर्ग्येण चरन्तः अध्वर्यवः अध्वरस्य नेतारः ऋत्विजइव सिष्विदानाः स्विद्यद्गात्राः गुत्द्याः घर्मकाले बिले निगूढाः केचित् केचन मण्डूकाः न सम्प्रति वृष्टौ सत्यां आविर्भवन्ति जायन्ते ॥ ८ ॥

7.103.9
दे॒वहि᳚तिं जुगुपुर्द्वाद॒शस्य᳚ ऋ॒तुं नरो॒ न प्र मि᳚नन्त्ये॒ते ।
सं॒व॒त्स॒रे प्रा॒वृष्याग᳚तायां त॒प्ता घ॒र्मा अ᳚श्नुवते विस॒र्गम् ॥
▶ पदपाठः (Word-by-word)
दे॒व॑हि᳚तिम् । जु॒गु॒पुः॒ । द्वा॒द॒शस्य᳚ । ऋ॒तुम् । नरः᳚ । न । प्र । मि॒न॒न्ति॒ । ए॒ते ।
सं॒व॒त्स॒रे । प्रा॒वृषि᳚ । आ॑ग᳚तायाम् । त॒प्ताः । घ॒र्माः । अ॒श्नु॒व॒ते॒ । वि॒॑स॒र्गम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरोनेतारएते मण्डूकाः देवहितिं देवैः कृतं विधानं अस्यर्तोरयं धर्मइत्येवं रूपं जुगुपुर्गोपायन्ति काले काले रक्षन्ति अतएव द्वादशस्य द्वादशमासात्मकस्य संवत्सरस्य ऋतुं तं तं वसन्तादिकं नप्रमिनन्ति न हिंसन्ति पर्जन्यस्तुतेरनुमोदनेन तत्तत्काले वृष्टिहेतवोभवन्ती- त्यर्थः । संवत्सरे संपूर्णे प्रवृषि वर्षर्तौ आगतायामागते सति घर्माः पूर्वं घर्मकाले वर्तमानास्तप्ताः तापेन पीडिताः सम्प्रति विसर्गं विसर्जनं बिलान्मोचनं अश्नुवते प्राप्नुवन्ति ॥ ९ ॥

7.103.10
गोमा᳚युरदाद॒जमा᳚युरदा॒त्पृश्नि᳚रदा॒द्धरि᳚तो नो॒ वसू᳚नि ।
गवां᳚ म॒ण्डूका॒ दद᳚तः श॒तानि᳚ सहस्रसा॒वे प्र ति᳚रन्त॒ आयु᳚ः ॥
▶ पदपाठः (Word-by-word)
गो॑मा᳚युः । अ॒दा॒त् । अ॒ज॑मा᳚युः । अ॒दा॒त् । पृश्निः᳚ । अ॒दा॒त् । हरि᳚तः । नः॒ । वसू᳚नि ।
गवा᳚म् । म॒ण्डूकाः᳚ । दद᳚तः । श॒तानि᳚ । स॒ह॒स्र॒॑सा॒वे । प्र । ति॒र॒न्ते॒ । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोमायुः गोरिव मायुः शब्दोयस्य तादृशोमण्डूकः वसूनि धनानि नोस्मभ्यं अदात् ददातु अजमायुश्च अदात् ददातु हरितो हरितवर्णश्च अदात् ददातु पृश्निः पृश्निवर्णश्च अदात् ददातु तथा सहस्रसावे सहस्रसंख्याकाः ओषधयः सूयन्ते उत्पद्यन्तइति वर्षर्तुः सहस्रसावः तस्मिन्सति सर्वे मण्डूकाः गवां शतानि अपरिमितागाः ददतोस्मभ्यं प्रयच्छन्तः आयुर्जीवनं प्रतिरन्ते प्रवर्धयन्तु ॥ १० ॥

इन्द्रासोमेति पञ्चविंशत्यृचं षोडशं सूक्तं वसिष्ठन्यार्षं आद्याः षड्जगत्यः सप्तमी जगती त्रिष्टुब्वा अष्टादश्येकविंशीत्रयोविंश्योजगत्यः अन्त्या प्रतिचक्ष्वेत्यनुष्टुप् शिष्टाश्चतुर्दशत्रिष्टुभः नवमीद्वादशीत्रयोदश्यः सोमदेवत्याः एकादशी देवदेवत्या अष्टमीषोडश्याविन्द्रदेवताके सप्तदशी ग्रावदेवत्मा अष्टादशी मरुद्देवताका दशमीचतुर्दश्यावग्निदेवताके प्रवर्तयेत्याद्याः पञ्चर्चइन्द्रदेवताकाः मानोरक्षइति त्रयोविंश्याः पूर्वोर्धर्चोवसिष्ठस्य प्रार्थनापरः अतस्तद्देवताकः उत्तरोर्धर्चः पृथिव्यन्तरिक्षदेवस्यः शिष्टानां रक्षोहणाविन्द्रासोमौ देवता । तथाचानु- क्रान्तम्-इन्द्रासोमापञ्चाधिकैन्द्रासोमं राक्षोघ्नं शापाभिशापप्रायं षट्सप्तवाद्याजगत्यः एकविंशीत्रयोविंश्यौचाष्टादशी मारुतीच दशमी चतुर्दश्यावाग्नेय्यौ देव्यैकादश्यन्त्यानुष्टुप् नवमी त्रयोदशी द्वादशी सौम्यः सप्तदशी ग्राव्णी अष्टमीषोडश्यावैंद्मौ प्रवर्तयेति पंचैंन्धोवा मानोरक्षइत्यृषेरात्मनआशीरुत्तरोर्धर्चः पृथिव्यन्तरिक्षदेवतइति तत्रबृहद्देवतयामनुक्रम्यते-संवत्सरंतु मण्डूकानैन्द्रासोमं परंतु यत् । ऋषिर्ददर्श रक्षोघ्नं पुत्रशोकपरिप्लुतः । हते पुत्रशतेक्रुद्धः सौदासैर्दुःखितस्तदेति ॥ अतोरक्षोनिबर्हणार्थमेतत्सुक्तं जाप्यम् ।