श्रवणम्

7.103.8
ब्रा॒ह्म॒णासः᳚ सो॒मिनो॒ वाच᳚मक्रत॒ ब्रह्म᳚ कृ॒ण्वन्त᳚ः परिवत्स॒रीण᳚म् ।
अ॒ध्व॒र्यवो᳚ घ॒र्मिणः᳚ सिष्विदा॒ना आ॒विर्भ᳚वन्ति॒ गुह्या॒ न के चि᳚त् ॥
▶ पदपाठः (Word-by-word)
ब्रा॒ह्म॒णासः᳚ । सो॒मिनः᳚ । वाच᳚म् । अ॒क्र॒त॒ । ब्रह्म᳚ । कृ॒ण्वन्तः᳚ । प॒रि॒व॒त्स॒रीण᳚म् ।
अ॒ध्व॒र्यवः᳚ । घ॒र्मिणः᳚ । सि॒स्वि॒दा॒नाः । आ॒विः । भ॒व॒न्ति॒ । गुह्याः᳚ । न । के । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमिनः सोमयुक्ताः परिवत्सरीणं सांवत्सरिकं गावामयनिकं ब्रह्मस्तुतशस्त्रात्मकं कृण्वन्तः कुर्वन्तो ब्राह्मणासः लुप्तोपममेतत् ब्राह्मणाइव वाचं शब्दं अक्रत अकृषत इमे मण्डूकाः अपिच घर्मिणो घर्मेण प्रव् अर्ग्येण चरन्तः अध्वर्यवः अध्वरस्य नेतारः ऋत्विजइव सिष्विदानाः स्विद्यद्गात्राः गुत्द्याः घर्मकाले बिले निगूढाः केचित् केचन मण्डूकाः न सम्प्रति वृष्टौ सत्यां आविर्भवन्ति जायन्ते ॥ ८ ॥