श्रवणम्

7.103.2
दि॒व्या आपो᳚ अ॒भि यदे᳚न॒माय॒न्दृतिं॒ न शुष्कं᳚ सर॒सी शया᳚नम् ।
गवा॒मह॒ न मा॒युर्व॒त्सिनी᳚नां म॒ण्डूका᳚नां व॒ग्नुरत्रा॒ समे᳚ति ॥
▶ पदपाठः (Word-by-word)
दि॒व्याः । आपः᳚ । अ॒भि । यत् । ए॒न॒म् । आय᳚न् । दृति᳚म् । न । शुष्क᳚म् । स॒र॒सी इति᳚ । शया᳚नम् ।
गवा᳚म् । अह᳚ । न । मा॒युः । व॒त्सिनी᳚नाम् । म॒ण्डूका᳚नाम् । व॒ग्नुः । अत्र᳚ । सम् । ए॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवा दिविभवाआपः दृतिं न दृतिमिव शुष्कं नीरसं सरसी महत्सरः सरसी गौरादिलक्षर्णोङीष् सरस्यां सुपांसुलुगिति सप्तम्यालुक् । ईदूतौचसप्तम्यर्थइति प्रगृह्यसंज्ञा । महति सरसि निर्जले घर्मकाले शयानं निवसन्तं एनं मण्डूकगणं यद्यदा आयन् अभिगच्छन्ति तदा अत्रास्मिन् वर्षणे पर्जन्ये वा सति वत्सिनीनां वत्सयुक्तानां गवां न मायुः गवां शब्दइव मण्डूकानां वग्नुः शब्दः समेति सङ्गच्छते तथा वत्सैः सङ्गतासु गोषु महान्घोषो जायते तद्वद्वृष्टे पर्जन्ये महान्कलकलशब्दो जायते इत्यर्थः । अहेति पूरकः ॥ २ ॥