श्रवणम्

7.103.4
अ॒न्यो अ॒न्यमनु᳚ गृभ्णात्येनोर॒पां प्र᳚स॒र्गे यदम᳚न्दिषाताम् ।
म॒ण्डूको॒ यद॒भिवृ᳚ष्ट॒ः कनि᳚ष्क॒न्पृश्नि᳚ः सम्पृ॒ङ्क्ते हरि᳚तेन॒ वाच᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒न्यः । अ॒न्यम् । अनु᳚ । गृ॒भ्णा॒ति॒ । ए॒नोः॒ । अ॒पाम् । प्र॒॑स॒र्गे । यत् । अम᳚न्दिषाताम् ।
म॒ण्डूकः᳚ । यत् । अ॒भि॑वृ᳚ष्टः । कनि᳚स्कन् । पृश्निः᳚ । स॒म्॑पृ॒ङ्क्ते । हरि᳚तेन । वाच᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एनोः एनयोर्द्वयोर्मण्डूकयोः अन्योमण्डूकः अन्यं मण्डूकं अनुगम्य गृभ्णाति गृह्णाति अपां उदकानां प्रसर्गे प्रसर्जने वर्षणे सति यद्यदा अमन्दिषातां हृष्टावभूताम् यद्यदा च अभिवृष्टः पर्जन्येनाभिषिक्तः कनिष्कन् स्कन्दयतेर्यङ्लुङन्तस्य रूपम् भृशं स्कन्दं उत्प्लवं कुर्वन्- पृश्निः पृश्निवर्णोमण्डूकः हरितेन हरितवर्णेनान्येन मण्डूकेन वाचं संपृङ्क्ते संयोजयत उभावपि एकविधं शब्दं कुर्वाते तदानीमन्यः अन्यमनुगृभ्णातीत्यन्वयः ॥ ४ ॥