सप्तमं मण्डलम् - सूक्तम् 71

6 ऋचः

ऋषिः: वसिष्ठः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 7.71 - सम्पूर्णम्

1 / 6
ऋक्: 7.71.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
7.71.1 समानपद
अप॒ स्वसु᳚रु॒षसो॒ नग्जि᳚हीते रि॒णक्ति᳚ कृ॒ष्णीर᳚रु॒षाय॒ पन्था᳚म् ।
अश्वा᳚मघा॒ गोम᳚घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु᳚म॒स्मद्यु᳚योतम् ॥
▶ पदपाठः (Word-by-word)
अप᳚ । स्वसुः᳚ । उ॒षसः᳚ । नक् । जि॒ही॒ते॒ । रि॒णक्ति᳚ । कृ॒ष्णीः । अ॒रु॒षाय᳚ । पन्था᳚म् ।
अश्व᳚॑मघा । गो॑म᳚घा । वा॒म् । हु॒वे॒म॒ । दिवा᳚ । नक्त᳚म् । शरु᳚म् । अ॒स्मत् । यु॒यो॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वसुः स्वसृस्थानीयायाउषसः सकाशात् नक् नक्तं रात्रिरपि जिहीते अपगच्छति तस्याः अवकाशं दत्वा स्वयमपगताइत्यर्थः । स्वसा स्वस्रे ज्यायस्यै योनिमारैगित्युक्तम् । कृष्णीः कृष्णवर्णा रात्रिररुषाय आरोचमानायाह्ने सूर्याय वा पन्थां पन्थानं मार्गं रिणक्ति रेचयति यस्मादेवं तस्माद्युवयोरागमनसमयत्वात् हे अश्वामघा अश्वधनौ हे गोमघा गोधनौ उभयोः प्रदातारावित्यर्थः ईदृशौ वां युवां हुवेम स्तुमः आह्वयामः दिवानक्तं सर्वदा शरुं हिंसकमस्मदस्मत्तोयुयोतं पृथक्कुरुतम् ॥ १ ॥

7.71.2
उ॒पाया᳚तं दा॒शुषे॒ मर्त्या᳚य॒ रथे᳚न वा॒मम᳚श्विना॒ वह᳚न्ता ।
यु॒यु॒तम॒स्मदनि᳚रा॒ममी᳚वां॒ दिवा॒ नक्तं᳚ माध्वी॒ त्रासी᳚थां नः ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑आया᳚तम् । दा॒शुषे᳚ । मर्त्या᳚य । रथे᳚न । वा॒मम् । अ॒श्वि॒ना॒ । वह᳚न्ता ।
यु॒यु॒तम् । अ॒स्मत् । अनि᳚राम् । अमी᳚वाम् । दिवा᳚ । नक्त᳚म् । मा॒ध्वी॒ इति᳚ । त्रासी᳚थाम् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ युवां उपायातमुपागच्छतमस्मदाह्वानं प्रति । किमर्थं दाशुषे हविषां दात्रे मर्त्याय यजमानाय तदर्धं रथेन वामं वननीयं धनं वहन्ता वहन्तौ अस्मदस्मत्तोयुयुतं पृथक्कुरुतम् । किं अनिरां इरान्नं तद्रहितं दारिन्द्यमित्यर्थः अमीवां रोगञ्च हे माध्वी मधुमन्तौ युवां नोस्मान् दिवानक्तं सर्वदा त्रासीथां रक्षतम् ॥ २ ॥

7.71.3
आ वां॒ रथ᳚मव॒मस्यां॒ व्यु᳚ष्टौ सुम्ना॒यवो॒ वृष᳚णो वर्तयन्तु ।
स्यूम᳚गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि᳚ना॒ वसु᳚मन्तं वहेथाम् ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । रथ᳚म् । अ॒व॒मस्या᳚म् । वि॑उ᳚ष्टौ । सु॒म्न॒॑यवः᳚ । वृष᳚णः । व॒र्त॒य॒न्तु॒ ।
स्यूम᳚॑गभस्तिम् । ऋ॒त॒युक्॑भिः᳚ । अश्वैः᳚ । आ । अ॒श्वि॒ना॒ । वसु᳚॑मन्तम् । व॒हे॒था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवमस्यां आसन्नायां व्युष्टौ व्युच्छने उषसि वां युवयोः रथं सुम्नायवः सुखेन योजयन्तोश्वाः वृषणोवर्षका युवां आवर्तयन्तु स्यूमग- भस्तिं सुखरश्मिं वसुमन्तं प्रदेयधनयुक्तं रथं हे अश्विनाश्विनौ ऋतयुग्भिः उदकयुक्तैश्वैः उदकप्रदैरश्वैः आवहेथाम् ॥ ३ ॥

7.71.4
यो वां॒ रथो᳚ नृपती॒ अस्ति᳚ वो॒ळ्हा त्रि᳚वन्धु॒रो वसु᳚मा{4} उ॒स्रया᳚मा ।
आ न᳚ ए॒ना ना᳚स॒त्योप᳚ यातम॒भि यद्वां᳚ वि॒श्वप्स्न्यो॒ जिगा᳚ति ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । रथः᳚ । नृ॒प॒ती॒ इति᳚ नृ॑पती । अस्ति᳚ । वो॒ळ्हा । त्रि॒॑व॒न्धु॒रः । वसु᳚॑मान् । उ॒स्र॑या᳚मा ।
आ । नः॒ । ए॒ना । ना॒स॒त्या॒ । उप᳚ । या॒त॒म् । अ॒भि । यत् । वा॒म् । वि॒श्व॑प्स्न्यः᳚ । जिगा᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृपती नृणां यजमानानां पालकौ अश्विनौ वां युवयोर्योरथः वोह्ळा युवयोर्वाहकोस्ति सर्वदा सन्निहितोवर्तते कीदृशोसौ त्रिवंन्धुरः सारथ्यधिष्ठानस्थानत्रयोपेतः वसुमान् धनवान् अस्रयामा उस्रं दिवसं प्रतिगन्ता एना एनेन रथेन हे नासत्या अशिनौ नोस्मानुपायात- म यद्रथोयश्चरथोवां विश्वप्रुयोव्याप्तरूपोभिजिगाति अभिगच्छति अथवा यद्यस्माद्विश्वप्रुयोवसिष्ठोवां जिगाति स्तौति अतउपा- यातम् ॥ ४ ॥

7.71.5
यु॒वं च्यवा᳚नं ज॒रसो᳚॑मुमुक्तं॒ नि पे॒दव᳚ ऊहथुरा॒शुमश्व᳚म् ।
निरंह᳚स॒स्तम᳚सः स्पर्त॒मत्रिं॒ नि जा᳚हु॒षं शि᳚थि॒रे धा᳚तम॒न्तः ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । च्यवा᳚नम् । ज॒रसः᳚ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे᳚ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व᳚म् ।
निः । अंह᳚सः । तम᳚सः । स्पर्त᳚म् । अत्रि᳚म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒त॒म् । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अशिनौ युवं युवां जरसोजीर्णाद्रूपत् अमुमुक्तम् अमुञ्चतम युवंच्यवानमश्विनाजरन्तंपुनर्युवानमित्यन्यत्र । तथा पेदवे एतन्नामकाय राज्ञे आशुं शीघ्रगामिनमश्वं निरूहथुः न्यवहतं युद्धे । युवंश्वेतंपेदवेइतिनिगमः । तथा अत्रिं महर्षिं अंहसः ऋबीसादग्नेः सकाशात्तमसश्च गुहान्तस्थिताच्च सकाशान्निष्पर्तं न्यपारयतम् । युवमृबीसमुततप्तमत्रयओमन्वन्तं चक्रथुरितिनिगमः । तथा जाहुषं शिथिरे शिथिले भ्रष्टे स्वराष्ट्रेन्तर्मध्ये पुनर्निधातं न्यधातम् परिविष्टं जाहुषंविश्वतःसीमितित्द्युक्तम् ॥ ५ ॥

7.71.6
इ॒यं म᳚नी॒षा इ॒यम᳚श्विना॒ गीरि॒मां सु᳚वृ॒क्तिं वृ᳚षणा जुषेथाम् ।
इ॒मा ब्रह्मा᳚णि युव॒यून्य᳚ग्मन्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒॑वृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
इ॒मा । ब्रह्मा᳚णि । यु॒व॒॑यूनि᳚ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयंमनीषेति षष्ठी गता ॥ ६ ॥

आगोमतेति पञ्चर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनं अनुक्रम्यतेच-आगोमतापञ्चेति । विनियोगः प्रातरनुवाकाश्विनशस्त्रयो- रुक्तः । आश्विनेपशावाद्याश्चतस्रोयाज्यानुवाक्याः । सूत्रितञ्च-आगोमतानासत्यारथेनेतिचतस्रइति ।