श्रवणम्

7.71.4
यो वां॒ रथो᳚ नृपती॒ अस्ति᳚ वो॒ळ्हा त्रि᳚वन्धु॒रो वसु᳚मा{4} उ॒स्रया᳚मा ।
आ न᳚ ए॒ना ना᳚स॒त्योप᳚ यातम॒भि यद्वां᳚ वि॒श्वप्स्न्यो॒ जिगा᳚ति ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । रथः᳚ । नृ॒प॒ती॒ इति᳚ नृ॑पती । अस्ति᳚ । वो॒ळ्हा । त्रि॒॑व॒न्धु॒रः । वसु᳚॑मान् । उ॒स्र॑या᳚मा ।
आ । नः॒ । ए॒ना । ना॒स॒त्या॒ । उप᳚ । या॒त॒म् । अ॒भि । यत् । वा॒म् । वि॒श्व॑प्स्न्यः᳚ । जिगा᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृपती नृणां यजमानानां पालकौ अश्विनौ वां युवयोर्योरथः वोह्ळा युवयोर्वाहकोस्ति सर्वदा सन्निहितोवर्तते कीदृशोसौ त्रिवंन्धुरः सारथ्यधिष्ठानस्थानत्रयोपेतः वसुमान् धनवान् अस्रयामा उस्रं दिवसं प्रतिगन्ता एना एनेन रथेन हे नासत्या अशिनौ नोस्मानुपायात- म यद्रथोयश्चरथोवां विश्वप्रुयोव्याप्तरूपोभिजिगाति अभिगच्छति अथवा यद्यस्माद्विश्वप्रुयोवसिष्ठोवां जिगाति स्तौति अतउपा- यातम् ॥ ४ ॥