श्रवणम्

7.71.5
यु॒वं च्यवा᳚नं ज॒रसो᳚॑मुमुक्तं॒ नि पे॒दव᳚ ऊहथुरा॒शुमश्व᳚म् ।
निरंह᳚स॒स्तम᳚सः स्पर्त॒मत्रिं॒ नि जा᳚हु॒षं शि᳚थि॒रे धा᳚तम॒न्तः ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । च्यवा᳚नम् । ज॒रसः᳚ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे᳚ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व᳚म् ।
निः । अंह᳚सः । तम᳚सः । स्पर्त᳚म् । अत्रि᳚म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒त॒म् । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अशिनौ युवं युवां जरसोजीर्णाद्रूपत् अमुमुक्तम् अमुञ्चतम युवंच्यवानमश्विनाजरन्तंपुनर्युवानमित्यन्यत्र । तथा पेदवे एतन्नामकाय राज्ञे आशुं शीघ्रगामिनमश्वं निरूहथुः न्यवहतं युद्धे । युवंश्वेतंपेदवेइतिनिगमः । तथा अत्रिं महर्षिं अंहसः ऋबीसादग्नेः सकाशात्तमसश्च गुहान्तस्थिताच्च सकाशान्निष्पर्तं न्यपारयतम् । युवमृबीसमुततप्तमत्रयओमन्वन्तं चक्रथुरितिनिगमः । तथा जाहुषं शिथिरे शिथिले भ्रष्टे स्वराष्ट्रेन्तर्मध्ये पुनर्निधातं न्यधातम् परिविष्टं जाहुषंविश्वतःसीमितित्द्युक्तम् ॥ ५ ॥