सप्तमं मण्डलम् - सूक्तम् 72

5 ऋचः

ऋषिः: वसिष्ठः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 7.72 - सम्पूर्णम्

1 / 5
ऋक्: 7.72.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
7.72.1
आ गोम᳚ता नासत्या॒ रथे॒नाश्वा᳚वता पुरुश्च॒न्द्रेण᳚ यातम् ।
अ॒भि वां॒ विश्वा᳚ नि॒युतः᳚ सचन्ते स्पा॒र्हया᳚ श्रि॒या त॒न्वा᳚ शुभा॒ना ॥
▶ पदपाठः (Word-by-word)
आ । गो॑म᳚ता । ना॒स॒त्या॒ । रथे᳚न । अश्व᳚॑वता । पु॒रु॒॑च॒न्द्रेण᳚ । या॒त॒म् ।
अ॒भि । वा॒म् । विश्वाः᳚ । नि॒॑युतः᳚ । स॒च॒न्ते॒ । स्पा॒र्हया᳚ । श्रि॒या । त॒न्वा᳚ । शु॒भा॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या अश्विनौ गोमता गोयुक्तेन अश्वावता अश्वयुक्तेन अश्वैर्वृषभैश्चोढेनेत्यर्थः यद्वा गोमता गोप्रदेन पुरुश्च्न्द्रेण बहुधनेन धनप्रदेने- त्यर्थः तादृशेन रथेन आयातं आगच्छतं वां विशा बह्वयोनियुतः स्तुतयः अभिसचन्ते सेवन्तेऽस्मत्प्रेरिताः । हे स्पार्हया स्पृहणीयया श्रिया शोभया तन्वा शरीरेणच शुभाना दीप्यमानौ युवाम् ॥ १ ॥

7.72.2
आ नो᳚ दे॒वेभि॒रुप᳚ यातम॒र्वाक्स॒जोष᳚सा नासत्या॒ रथे᳚न ।
यु॒वोर्हि नः᳚ स॒ख्या पित्र्या᳚णि समा॒नो बन्धु᳚रु॒त तस्य᳚ वित्तम् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । दे॒वेभिः᳚ । उप᳚ । या॒त॒म् । अ॒र्वाक् । स॒॑जोष᳚सा । ना॒स॒त्या॒ । रथे᳚न ।
यु॒वोः । हि । नः॒ । स॒ख्या । पित्र्या᳚णि । स॒मा॒नः । बन्धुः᳚ । उ॒त । तस्य᳚ । वि॒त्त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या अश्विनौ युवां देवेभिरितरैर्देवैः सह सजोषसा समानप्रीतौ प्रस्परं सन्तौ नोस्माकमर्वागभिमुखं रथेन उपसमीपे आयातं आगच्छतम् । आगमने बन्धुत्वातिशयमाह युवोर्हि युवयोः खलु नोस्माकञ्च सख्या सख्यानि पित्र्याणि पितृतः प्राप्तानि नेदानीं स्तुत्याद्युपाधिना प्राप्तानि भवन्तीत्यर्थः तदेवाह उतापिच युवयोर्ममच बन्धुः तद्बन्धुत्वं वा वित्तं जानीतम् । विवस्वान् वरुणश्चो- भावपि कश्यपावदितेर्जातौ विवस्वानश्विनोर्जनकः वरुणोवसिष्ठस्येतीत्येवं समानबन्धुत्वं तथाच बृहद्देवतायामुक्तम्-अभवन्मिथुनं- त्वष्टुःसरण्यूस्त्रिशिराः सह । सवैसरण्युंप्रयच्छत्स्वयमेवविवस्वते ॥ १ ॥ ततःसरण्य्वांजातेतेयमयम्यौविवस्वतः । तावप्युभौयमावेव- त्द्यास्तां यम्याचवैयमः ॥ २ ॥ सृष्ट्वाभर्तुःपरोक्षंतुसरण्यूःसदृशींस्त्रियम् । निक्षिप्यमिथुनंतस्यामश्वाभूत्वाप्रचक्रमे ॥ ३ ॥ अविज्ञानाद्वि- वस्वांस्तुतस्यामजनयन्मनुम् । राजर्षिरासीत्समनुर्विवस्वानिवतेजसा ॥ ४ ॥ सविज्ञायअपक्रान्तांसरण्यूमात्मरूपिणीम् । त्वाष्ट्रींप्रतिज- गामाशुवाजीभूत्वासलक्षणः ॥ ५ ॥ सरण्यूस्तुविवस्वन्तंविज्ञायहयरूपिणम् । मैथुनायोपचक्रामताञ्चतत्रारुरोहसः ॥ ६ ॥ ततस्तयोस्तुवेगेन- शुक्रंतदपतद्भूवि । उपाजिघ्रच्चसात्वश्वातंशुक्रंगर्भकाम्यया ॥ ७ ॥ आघ्राणमात्राच्छुकंतत् कुमारौसंबभूवतुः । नासत्यश्चैवदस्रश्चयौस्तुताव- श्विनावपीति ॥ २ ॥

7.72.3
उदु॒ स्तोमा᳚सो अ॒श्विनो᳚रबुध्रञ्जा॒मि ब्रह्मा᳚ण्यु॒षस᳚श्च दे॒वीः ।
आ॒विवा᳚स॒न्रोद᳚सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास᳚त्या विवक्ति ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्तोमा᳚सः । अ॒श्विनोः᳚ । अ॒बु॒ध्र॒न् । जा॒मि । ब्रह्मा᳚णि । उ॒षसः᳚ । च॒ । दे॒वीः ।
आ॒॑विवा᳚सन् । रोद᳚सी॒ इति᳚ । धिष्ण्ये॒ इति᳚ । इ॒मे इति᳚ । अच्छ᳚ । विप्रः᳚ । नास᳚त्या । वि॒व॒क्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तोमासः स्तोमाः स्तवाः अश्विना अश्विनौ उदु अबुध्रन् उत्कृष्टं बोधयन्ति उइति पूरणः जामि बन्धुनामैतत् बन्धुस्थानीयानि ब्रह्माणि परिवृढानि कर्माणि देवीर्द्योतमानाउषसश्चकारादश्विनौच अबुध्रन् विप्रोमेधावी वसिष्ठः इमे रोदसी द्यावापृथिव्यौ धिष्णये धिष- णार्हे स्तुत्ये आविवासन् परिचरन् नासत्या अशिनौ अच्छ अभिमुखं विवक्ति स्तौति ॥ ३ ॥

7.72.4
वि चेदु॒च्छन्त्य᳚श्विना उ॒षास॒ः प्र वां॒ ब्रह्मा᳚णि का॒रवो᳚ भरन्ते ।
ऊ॒र्ध्वं भा॒नुं स᳚वि॒ता दे॒वो अ᳚श्रेद्बृ॒हद॒ग्नयः᳚ स॒मिधा᳚ जरन्ते ॥
▶ पदपाठः (Word-by-word)
वि । च॒ । इत् । उ॒च्छन्ति᳚ । अ॒श्वि॒नौ॒ । उ॒षसः᳚ । प्र । वा॒म् । ब्रह्मा᳚णि । का॒रवः᳚ । भ॒र॒न्ते॒ ।
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । बृ॒हत् । अ॒ग्नयः᳚ । स॒म्॑इधा᳚ । ज॒र॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ उषासः उषसः व्युच्छन्ति चेत् तमांसि विवासयन्ति चेदितिपूरणश्चार्थेवा सच वक्ष्यमाणसूर्याद्यपेक्षकः चेद्योगादनिघातः । अतोवां युवयोः स्तुतिसमयत्वाद्बब्रह्माणि स्तोत्राणि कारवः स्तोतारः प्रभरन्ते प्रकर्षेण संपादयन्ति ऊर्ध्वमश्रेत् आश्रयति भानुं तेजः सविता देवः अग्रयोपि समिधा समिन्धनेन बृहत् अतिमहत् जरन्ते स्तूयन्ते ॥ ४ ॥ आपश्चातादिति पञ्चमी आश्विने पशौ वपायाअनुवाक्या सूत्रितञ्च-आपश्चतान्नासत्यापुरस्तादागोमतानासत्यारथेनेति । तत्पाठस्तु-

7.72.5
आ प॒श्चाता᳚न्नास॒त्या पु॒रस्ता॒दाश्वि᳚ना यातमध॒रादुद᳚क्तात् ।
आ वि॒श्वत॒ः पाञ्च᳚जन्येन रा॒या यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ । प॒श्चाता᳚त् । ना॒स॒त्या॒ । आ । पु॒रस्ता᳚त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद᳚क्तात् ।
आ । वि॒श्वतः᳚ । पाञ्च᳚॑जन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या अश्विनौ पश्चातात् पश्चाद्देशात् आयातम् तथा पुरस्तात्पूर्वस्माद्देशात् तथा अधरादधस्तनाद्देशात् दक्षिणतः उदक्तादुदग्देशात् सर्वत्रायातमिति संबन्धः किंबहुना विश्वतः सर्वस्माद्देशात्पाञ्चजन्येन पञ्चजनहितेन राया धनेन सहायातम् निषादपञ्चमाश्चत्वारो- वर्णाः पञ्चजनाः शिष्टं स्पष्टम् ॥ ५ ॥

अतारिष्मेति पञ्चर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनम् अतारिष्मेत्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।