श्रवणम्

7.72.1
आ गोम᳚ता नासत्या॒ रथे॒नाश्वा᳚वता पुरुश्च॒न्द्रेण᳚ यातम् ।
अ॒भि वां॒ विश्वा᳚ नि॒युतः᳚ सचन्ते स्पा॒र्हया᳚ श्रि॒या त॒न्वा᳚ शुभा॒ना ॥
▶ पदपाठः (Word-by-word)
आ । गो॑म᳚ता । ना॒स॒त्या॒ । रथे᳚न । अश्व᳚॑वता । पु॒रु॒॑च॒न्द्रेण᳚ । या॒त॒म् ।
अ॒भि । वा॒म् । विश्वाः᳚ । नि॒॑युतः᳚ । स॒च॒न्ते॒ । स्पा॒र्हया᳚ । श्रि॒या । त॒न्वा᳚ । शु॒भा॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या अश्विनौ गोमता गोयुक्तेन अश्वावता अश्वयुक्तेन अश्वैर्वृषभैश्चोढेनेत्यर्थः यद्वा गोमता गोप्रदेन पुरुश्च्न्द्रेण बहुधनेन धनप्रदेने- त्यर्थः तादृशेन रथेन आयातं आगच्छतं वां विशा बह्वयोनियुतः स्तुतयः अभिसचन्ते सेवन्तेऽस्मत्प्रेरिताः । हे स्पार्हया स्पृहणीयया श्रिया शोभया तन्वा शरीरेणच शुभाना दीप्यमानौ युवाम् ॥ १ ॥