श्रवणम्

7.72.5
आ प॒श्चाता᳚न्नास॒त्या पु॒रस्ता॒दाश्वि᳚ना यातमध॒रादुद᳚क्तात् ।
आ वि॒श्वत॒ः पाञ्च᳚जन्येन रा॒या यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ । प॒श्चाता᳚त् । ना॒स॒त्या॒ । आ । पु॒रस्ता᳚त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद᳚क्तात् ।
आ । वि॒श्वतः᳚ । पाञ्च᳚॑जन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या अश्विनौ पश्चातात् पश्चाद्देशात् आयातम् तथा पुरस्तात्पूर्वस्माद्देशात् तथा अधरादधस्तनाद्देशात् दक्षिणतः उदक्तादुदग्देशात् सर्वत्रायातमिति संबन्धः किंबहुना विश्वतः सर्वस्माद्देशात्पाञ्चजन्येन पञ्चजनहितेन राया धनेन सहायातम् निषादपञ्चमाश्चत्वारो- वर्णाः पञ्चजनाः शिष्टं स्पष्टम् ॥ ५ ॥

अतारिष्मेति पञ्चर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनम् अतारिष्मेत्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।