वि चेदु॒च्छन्त्य᳚श्विना उ॒षास॒ः प्र वां॒ ब्रह्मा᳚णि का॒रवो᳚ भरन्ते ।
ऊ॒र्ध्वं भा॒नुं स᳚वि॒ता दे॒वो अ᳚श्रेद्बृ॒हद॒ग्नयः᳚ स॒मिधा᳚ जरन्ते ॥
ऊ॒र्ध्वं भा॒नुं स᳚वि॒ता दे॒वो अ᳚श्रेद्बृ॒हद॒ग्नयः᳚ स॒मिधा᳚ जरन्ते ॥
पदपाठः (Word-by-word)
वि । च॒ । इत् । उ॒च्छन्ति᳚ । अ॒श्वि॒नौ॒ । उ॒षसः᳚ । प्र । वा॒म् । ब्रह्मा᳚णि । का॒रवः᳚ । भ॒र॒न्ते॒ ।
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । बृ॒हत् । अ॒ग्नयः᳚ । स॒म्॑इधा᳚ । ज॒र॒न्ते॒ ॥
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । बृ॒हत् । अ॒ग्नयः᳚ । स॒म्॑इधा᳚ । ज॒र॒न्ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ उषासः उषसः व्युच्छन्ति चेत् तमांसि विवासयन्ति चेदितिपूरणश्चार्थेवा सच वक्ष्यमाणसूर्याद्यपेक्षकः चेद्योगादनिघातः । अतोवां युवयोः स्तुतिसमयत्वाद्बब्रह्माणि स्तोत्राणि कारवः स्तोतारः प्रभरन्ते प्रकर्षेण संपादयन्ति ऊर्ध्वमश्रेत् आश्रयति भानुं तेजः सविता देवः अग्रयोपि समिधा समिन्धनेन बृहत् अतिमहत् जरन्ते स्तूयन्ते ॥ ४ ॥ आपश्चातादिति पञ्चमी आश्विने पशौ वपायाअनुवाक्या सूत्रितञ्च-आपश्चतान्नासत्यापुरस्तादागोमतानासत्यारथेनेति । तत्पाठस्तु-