सप्तमं मण्डलम् - सूक्तम् 6

7 ऋचः

ऋषिः: वसिष्ठः देवता: वैश्वानरोग्निः छन्दः: त्रिष्टुप्

सूक्तम् 7.6 - सम्पूर्णम्

1 / 7
ऋक्: 7.6.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.6.1
प्र स॒म्राजो॒ असु᳚रस्य॒ प्रश᳚स्तिं पुं॒सः कृ᳚ष्टी॒नाम᳚नु॒माद्य᳚स्य ।
इन्द्र᳚स्येव॒ प्र त॒वस᳚स्कृ॒तानि॒ वन्दे᳚ दा॒रुं वन्द᳚मानो विवक्मि ॥
▶ पदपाठः (Word-by-word)
प्र । स॒म्॑राजः᳚ । असु᳚रस्य । प्र॑श᳚स्तिम् । पुं॒सः । कृ॒ष्टी॒नाम् । अ॒नु॒॑माद्य᳚स्य ।
इन्द्र᳚स्य॑इव । प्र । त॒वसः᳚ । कृ॒तानि᳚ । वन्दे᳚ । दा॒रुम् । वन्द᳚मानः । वि॒व॒क्मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दारुं पुरां भेत्तारं वन्दे वन्दमानःसन् सम्राजः सर्वस्य भुवनस्येशरस्य असुरस्य बलवतः पुंसो वीरस्य पौंस्यमिति वीर्यमुच्यते तथा च यास्कः-पुमान् पुरुमना भवति पुंसतेर्वेति । कृष्टीनां जनानां अनुमाद्यस्य स्तुत्यस्य तवसो बलवतइन्द्रस्येव तस्य वैश्वानरस्य प्रशस्तिं स्तुतिं कृतानि कर्माणि च प्रविवक्मि प्रब्रवीमि ॥ १ ॥

7.6.2
क॒विं के॒तुं धा॒सिं भा॒नुमद्रे᳚र्हि॒न्वन्ति॒ शं रा॒ज्यं रोद᳚स्योः ।
पु॒रं॒द॒रस्य᳚ गी॒र्भिरा वि᳚वासे॒॑ग्नेर्व्र॒तानि᳚ पू॒र्व्या म॒हानि᳚ ॥
▶ पदपाठः (Word-by-word)
क॒विम् । के॒तुम् । धा॒सिम् । भा॒नुम् । अद्रेः᳚ । हि॒न्वन्ति᳚ । शम् । रा॒ज्यम् । रोद᳚स्योः ।
पु॒र॒म्॑द॒रस्य᳚ । गीः॒॑भिः । आ । वि॒वा॒से॒ । अ॒ग्नेः । व्र॒तानि᳚ । पू॒र्व्या । म॒हानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविं प्राज्ञं केतुं विश्वस्य प्रज्ञापकं धासिं अद्रेर्धर्तारं आदर्तुः स्तोतुर्वा भानुं भासकं शं सुखकरं रोदस्योः द्यावापृथिव्योः राज्यं राजानं वैश्वानरमग्निं हिन्वन्ति मदीयाः प्रीणयन्ति प्रेरयन्ति वा देवाः । अहं च पुरंदरस्य पुरां दारयितुरग्नेः पूर्व्या पूर्व्याणि पुरातनानि महानि महान्ति व्रतानि कर्माणि गीर्भिराविवासे परिचरामि ॥ २ ॥

7.6.3
न्य᳚क्र॒तून्ग्र॒थिनो᳚ मृ॒ध्रवा᳚चः प॒णी{4}र᳚श्र॒द्धा{4} अ᳚वृ॒धा{4} अ᳚य॒ज्ञान् ।
प्रप्र॒ तान्दस्यू{4}᳚र॒ग्निर्वि᳚वाय॒ पूर्व᳚श्चका॒राप᳚रा{4}॒ अय᳚ज्यून् ॥
▶ पदपाठः (Word-by-word)
नि । अ॒क्र॒तून् । ग्र॒थिनः᳚ । मृ॒ध्र॑वा᳚चः । प॒णीन् । अ॒श्र॒द्धान् । अ॒वृ॒धान् । अ॒य॒ज्ञान् ।
प्र॑प्र᳚ । तान् । दस्यू᳚न् । अ॒ग्निः । वि॒वा॒य॒ । पूर्वः᳚ । च॒का॒र॒ । अप᳚रान् । अय᳚ज्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अक्रतून् अयज्ञान् ग्रंथिनो जल्पकान् मृध्रवाच् ओ हिंसितवचस्कान् पणीन् पणिनामकान् वार्धुषिकान् अश्रद्धान् यज्ञादिषु श्रद्धारहितान् अवृधान् स्तुतिभिरग्निमवर्धयतः अयज्ञान् यज्ञहीनान् तान् दस्यून् वृथा कालस्य नेतॄन् अग्निः प्रप्र अत्यन्तं निविचाय नितरां गमयेत् । तदेवाह अग्निः पूर्वो मुख्यःसन् अयज्यून् अयजमानान् अपरान् जघन्यान् चकार करोतीत्यर्थः ॥ ३ ॥

7.6.4 समानपद
यो अ᳚पा॒चीने॒ तम᳚सि॒ मद᳚न्ती॒ः प्राची᳚श्च॒कार॒ नृत᳚म॒ः शची᳚भिः ।
तमीशा᳚नं॒ वस्वो᳚ अ॒ग्निं गृ᳚णी॒षे॑ना᳚नतं द॒मय᳚न्तं पृत॒न्यून् ॥
▶ पदपाठः (Word-by-word)
यः । अ॒पा॒चीने᳚ । तम᳚सि । मद᳚न्तीः । प्राचीः᳚ । च॒कार᳚ । नृ॑त᳚मः । शची᳚भिः ।
तम् । ईशा᳚नम् । वस्वः᳚ । अ॒ग्निम् । गृ॒णी॒षे॒ । अना᳚नतम् । द॒मय᳚न्तम् । पृ॒त॒न्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृतमो नेतृतमो योग्निः अपाचीने अप्रकाशमाने तमसि निमग्नाः प्रजाः मदन्तीः स्तुवन्तीः शचीभिस्ताभ्योदत्ताभिः प्रज्ञाभिः प्राचीः ऋजुगामिनिश्चकार । यद्वा नेतृतमो योग्निः अपाचीने तमसि निशायां मदन्तीर्माद्यन्तीरुषसः शचीभिः प्रज्ञाभिः प्राचीश्चकारेत्यर्थः । तं वस्वो धनस्येशानं अनानतमप्रह्वं पृतन्यून् युद्धकामांश्च दमयन्तमग्निं गृणीषे स्तौमि ॥ ४ ॥

7.6.5
यो दे॒ह्यो॒३॒᳚ अन᳚मयद्वध॒स्नैर्यो अ॒र्यप᳚त्नीरु॒षस᳚श्च॒कार᳚ ।
स नि॒रुध्या॒ नहु᳚षो य॒ह्वो अ॒ग्निर्विश᳚श्चक्रे बलि॒हृत॒ः सहो᳚भिः ॥
▶ पदपाठः (Word-by-word)
यः । दे॒ह्यः᳚ । अन᳚मयत् । व॒ध॒॑स्नैः । यः । अ॒र्य॑प᳚त्नीः । उ॒षसः᳚ । च॒कार᳚ ।
सः । नि॒॑रुध्य᳚ । नहु᳚षः । य॒ह्वः । अ॒ग्निः । विशः᳚ । च॒क्रे॒ । ब॒लि॒॑हृतः᳚ । सहः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्देह्यो देही रुपचिता आसुरीर्विद्याः वधस्नैः वधैरायुधैर्वा अनमयत् हीना अकरोत् । यश्च अर्यः पत्नीः अर्यः सूर्यः पतिर्यासां ताः अर्य- पत्न्यः ता उषसश्चकार अकरोत् । स यह्वो महानग्निः विशः प्रजाः सहोभिः बलैः निरुध्य नहुषो राज्ञो बलिहृतः करप्रदाश्चक्रे ॥ ५ ॥

7.6.6 समानपद
यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना᳚स॒ एवै᳚स्त॒स्थुः सु᳚म॒तिं भिक्ष᳚माणाः ।
वै॒श्वा॒न॒रो वर॒मा रोद᳚स्यो॒राग्निः स᳚साद पि॒त्रोरु॒पस्थ᳚म् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । शर्म᳚न् । उप᳚ । विश्वे᳚ । जना᳚सः । एवैः᳚ । त॒स्थुः । सु॒॑म॒तिम् । भिक्ष᳚माणाः ।
वै॒श्वा॒न॒रः । वर᳚म् । आ । रोद᳚स्योः । आ । अ॒ग्निः । स॒सा॒द॒ । पि॒त्रोः । उ॒प॑स्थ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वे सर्वे जनासो जनाः शर्मन् शर्मणि सुखनिमित्तं यस्य वैश्वानरस्य सुमतिं भिक्षमा णाः प्रार्थमानाः एवैः कर्मभिर्हविर्भिर्वा उपतस्थुः यमेवोपतिष्ठन्ते । सवैश्वानरो विशनरहितो ग्निः सूर्यः सन् पित्रोः मातापित्रोः रोदस्योः द्यावापृथिव्योः वरमुत्कृष्टं उपस्थं मध्यमन्तरिक्ष- माससाद आगच्छत् ॥ ६ ॥

7.6.7
आ दे॒वो द᳚दे बु॒ध्न्या॒३॒᳚ वसू᳚नि वैश्वान॒र उदि᳚ता॒ सूर्य᳚स्य ।
आ स᳚मु॒द्रादव᳚रा॒दा पर᳚स्मा॒दाग्निर्द᳚दे दि॒व आ पृ᳚थि॒व्याः ॥
▶ पदपाठः (Word-by-word)
आ । दे॒वः । द॒दे॒ । बु॒ध्न्या᳚ । वसू᳚नि । वै॒श्वा॒न॒रः । उत्॑इ᳚ता । सूर्य᳚स्य ।
आ । स॒मु॒द्रात् । अव᳚रात् । आ । पर᳚स्मात् । आ । अ॒ग्निः । द॒दे॒ । दि॒वः । आ । पृ॒थि॒व्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वैश्वानरो विश्वनरहितोग्निः देवो द्योतमानः बुध्न्या बुध्न्यानि अन्तरिक्षाणि बुध्नमन्तरिक्षं तथा च यास्कः-बुध्नमरिक्षं बद्धा अस्मिन् धृता आप इति वेति । वसूनि आच्छादकानि तमांसि वसआच्छादने इति धातुः सूर्यस्य उदिता उदितौ उदयेसति आददे समुद्रादन्तरिक्षात् सगरः समुद्र इत्यन्तरिक्ष नामसु पाठात् अवरात् पृथिव्याः तमांस्याददे समुद्रात्परस्माद्दिवोपि तमां स्याददे तदेव दर्शयति अग्निर्दिवस्त- मांस्याददे पृथिव्याश्च तमांस्याददे ॥ ७ ॥

प्रवोदेवमिति सप्तर्चं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं प्रवोदेवमित्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्ते उक्तोविनियोगः ।