श्रवणम्

7.6.5
यो दे॒ह्यो॒३॒᳚ अन᳚मयद्वध॒स्नैर्यो अ॒र्यप᳚त्नीरु॒षस᳚श्च॒कार᳚ ।
स नि॒रुध्या॒ नहु᳚षो य॒ह्वो अ॒ग्निर्विश᳚श्चक्रे बलि॒हृत॒ः सहो᳚भिः ॥
▶ पदपाठः (Word-by-word)
यः । दे॒ह्यः᳚ । अन᳚मयत् । व॒ध॒॑स्नैः । यः । अ॒र्य॑प᳚त्नीः । उ॒षसः᳚ । च॒कार᳚ ।
सः । नि॒॑रुध्य᳚ । नहु᳚षः । य॒ह्वः । अ॒ग्निः । विशः᳚ । च॒क्रे॒ । ब॒लि॒॑हृतः᳚ । सहः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्देह्यो देही रुपचिता आसुरीर्विद्याः वधस्नैः वधैरायुधैर्वा अनमयत् हीना अकरोत् । यश्च अर्यः पत्नीः अर्यः सूर्यः पतिर्यासां ताः अर्य- पत्न्यः ता उषसश्चकार अकरोत् । स यह्वो महानग्निः विशः प्रजाः सहोभिः बलैः निरुध्य नहुषो राज्ञो बलिहृतः करप्रदाश्चक्रे ॥ ५ ॥