श्रवणम्

7.6.4 समानपद
यो अ᳚पा॒चीने॒ तम᳚सि॒ मद᳚न्ती॒ः प्राची᳚श्च॒कार॒ नृत᳚म॒ः शची᳚भिः ।
तमीशा᳚नं॒ वस्वो᳚ अ॒ग्निं गृ᳚णी॒षे॑ना᳚नतं द॒मय᳚न्तं पृत॒न्यून् ॥
▶ पदपाठः (Word-by-word)
यः । अ॒पा॒चीने᳚ । तम᳚सि । मद᳚न्तीः । प्राचीः᳚ । च॒कार᳚ । नृ॑त᳚मः । शची᳚भिः ।
तम् । ईशा᳚नम् । वस्वः᳚ । अ॒ग्निम् । गृ॒णी॒षे॒ । अना᳚नतम् । द॒मय᳚न्तम् । पृ॒त॒न्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृतमो नेतृतमो योग्निः अपाचीने अप्रकाशमाने तमसि निमग्नाः प्रजाः मदन्तीः स्तुवन्तीः शचीभिस्ताभ्योदत्ताभिः प्रज्ञाभिः प्राचीः ऋजुगामिनिश्चकार । यद्वा नेतृतमो योग्निः अपाचीने तमसि निशायां मदन्तीर्माद्यन्तीरुषसः शचीभिः प्रज्ञाभिः प्राचीश्चकारेत्यर्थः । तं वस्वो धनस्येशानं अनानतमप्रह्वं पृतन्यून् युद्धकामांश्च दमयन्तमग्निं गृणीषे स्तौमि ॥ ४ ॥