श्रवणम्

7.6.2
क॒विं के॒तुं धा॒सिं भा॒नुमद्रे᳚र्हि॒न्वन्ति॒ शं रा॒ज्यं रोद᳚स्योः ।
पु॒रं॒द॒रस्य᳚ गी॒र्भिरा वि᳚वासे॒॑ग्नेर्व्र॒तानि᳚ पू॒र्व्या म॒हानि᳚ ॥
▶ पदपाठः (Word-by-word)
क॒विम् । के॒तुम् । धा॒सिम् । भा॒नुम् । अद्रेः᳚ । हि॒न्वन्ति᳚ । शम् । रा॒ज्यम् । रोद᳚स्योः ।
पु॒र॒म्॑द॒रस्य᳚ । गीः॒॑भिः । आ । वि॒वा॒से॒ । अ॒ग्नेः । व्र॒तानि᳚ । पू॒र्व्या । म॒हानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविं प्राज्ञं केतुं विश्वस्य प्रज्ञापकं धासिं अद्रेर्धर्तारं आदर्तुः स्तोतुर्वा भानुं भासकं शं सुखकरं रोदस्योः द्यावापृथिव्योः राज्यं राजानं वैश्वानरमग्निं हिन्वन्ति मदीयाः प्रीणयन्ति प्रेरयन्ति वा देवाः । अहं च पुरंदरस्य पुरां दारयितुरग्नेः पूर्व्या पूर्व्याणि पुरातनानि महानि महान्ति व्रतानि कर्माणि गीर्भिराविवासे परिचरामि ॥ २ ॥