श्रवणम्

7.6.3
न्य᳚क्र॒तून्ग्र॒थिनो᳚ मृ॒ध्रवा᳚चः प॒णी{4}र᳚श्र॒द्धा{4} अ᳚वृ॒धा{4} अ᳚य॒ज्ञान् ।
प्रप्र॒ तान्दस्यू{4}᳚र॒ग्निर्वि᳚वाय॒ पूर्व᳚श्चका॒राप᳚रा{4}॒ अय᳚ज्यून् ॥
▶ पदपाठः (Word-by-word)
नि । अ॒क्र॒तून् । ग्र॒थिनः᳚ । मृ॒ध्र॑वा᳚चः । प॒णीन् । अ॒श्र॒द्धान् । अ॒वृ॒धान् । अ॒य॒ज्ञान् ।
प्र॑प्र᳚ । तान् । दस्यू᳚न् । अ॒ग्निः । वि॒वा॒य॒ । पूर्वः᳚ । च॒का॒र॒ । अप᳚रान् । अय᳚ज्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अक्रतून् अयज्ञान् ग्रंथिनो जल्पकान् मृध्रवाच् ओ हिंसितवचस्कान् पणीन् पणिनामकान् वार्धुषिकान् अश्रद्धान् यज्ञादिषु श्रद्धारहितान् अवृधान् स्तुतिभिरग्निमवर्धयतः अयज्ञान् यज्ञहीनान् तान् दस्यून् वृथा कालस्य नेतॄन् अग्निः प्रप्र अत्यन्तं निविचाय नितरां गमयेत् । तदेवाह अग्निः पूर्वो मुख्यःसन् अयज्यून् अयजमानान् अपरान् जघन्यान् चकार करोतीत्यर्थः ॥ ३ ॥