स॒मो दि॒वा द᳚दृशे॒ रोच᳚मान॒ः क्रत्वा᳚ कृ॒तः सुकृ᳚तः क॒र्तृभि᳚र्भूत् ॥
पदपाठः (Word-by-word)
स॒मः । दि॒वा । द॒दृ॒शे॒ । रोच᳚मानः । क्रत्वा᳚ । कृ॒तः । सु॑कृ᳚तः । क॒र्तृ॑भिः᳚ । भू॒त् ॥
सायणभाष्यम् (Sayana Commentary)
सूर्यः सर्वस्यप्रेरकोदेवः बृहत् अत्यधिकं पुरु पुरूणि बहूनि अर्चींषि तेजांसि उदश्रेत् ऊर्ध्वं श्रयति किंप्रति मानुषाणां मनुष्याणां विश्वा सर्वाणि जनिमा जनिमानि जनान् जनशब्दः संघवचनः तान् प्रत्युदश्रेत् सदेवोदिवा अहनि रोचमानः सन् समोददृशे एकरूपः प्र- तिनियतः सन् दृश्यते तस्मात्पुरुषं पुरुषं प्रत्यादित्योभवतीतिहिश्रुतिः । सदेवः क्रत्वा सर्वस्यकर्ता कृतः संपादितः प्रजापतिना कर्तुभिः स्तुतिकर्तृभिः सुकृतः स्तुत्या तीक्ष्णीकृतोभूत् भवति ॥ १ ॥