श्रवणम्

7.62.4 समानपद
द्यावा᳚भूमी अदिते॒ त्रासी᳚थां नो॒ ये वां᳚ ज॒ज्ञुः सु॒जनि᳚मान ऋष्वे ।
मा हेळे᳚ भूम॒ वरु᳚णस्य वा॒योर्मा मि॒त्रस्य᳚ प्रि॒यत᳚मस्य नृ॒णाम् ॥
▶ पदपाठः (Word-by-word)
द्यावा᳚भूमी॒ इति᳚ । अ॒दि॒ते॒ । त्रासी᳚थाम् । नः॒ । ये । वा॒म् । ज॒ज्ञुः । सु॒॑जनि᳚मानः । ऋ॒ष्वे॒ इति᳚ ।
मा । हेळे᳚ । भू॒म॒ । वरु᳚णस्य । वा॒योः । मा । मि॒त्रस्य᳚ । प्रि॒य॑त᳚मस्य । नृ॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे द्यावाभूमी द्यावापृथिव्यौ हे अदिते अखण्डनीये एतत् द्यावाभूम्योरेवैकवचनेन संबोधनं हे ऋष्वे महन्नामैतत् हे महत्यौ नोस्मान् त्रासीथां रक्षतम् । ये वयं सुजनिमानः शोभनजन्मानोवां युवां जज्ञुः ज्ञातवन्तः स्म । किञ्च वयं वरुणस्य हेळे क्रोधे माभूम तथा वायोर्माभूम तथा नृणां स्तुतिनेतॄणां मनुष्याणां प्रियतमस्य मित्रस्य हेळे माभूम ॥ ४ ॥ प्रबाहवेति पञ्चमी मैत्रावरुणे पशौ पुरोडाशस्य याज्या सूत्रितंच-प्रबाहवासिसृतंजीवसेनोयद्बंहिष्ठंनातिविधेसुदानूइति । तत्पाठस्तु ।