वि नः᳚ स॒हस्रं᳚ शु॒रुधो᳚ रदन्त्वृ॒तावा᳚नो॒ वरु᳚णो मि॒त्रो अ॒ग्निः ।
यच्छ᳚न्तु च॒न्द्रा उ᳚प॒मं नो᳚ अ॒र्कमा न॒ः कामं᳚ पूपुरन्तु॒ स्तवा᳚नाः ॥
यच्छ᳚न्तु च॒न्द्रा उ᳚प॒मं नो᳚ अ॒र्कमा न॒ः कामं᳚ पूपुरन्तु॒ स्तवा᳚नाः ॥
पदपाठः (Word-by-word)
वि । नः॒ । स॒हस्र᳚म् । शु॒रुधः᳚ । र॒द॒न्तु॒ । ऋ॒त॑वा᳚नः । वरु᳚णः । मि॒त्रः । अ॒ग्निः ।
यच्छ᳚न्तु । च॒न्द्राः । उ॒प॒॑मम् । नः॒ । अ॒र्कम् । आ । नः॒ । काम᳚म् । पू॒पु॒र॒न्तु॒ । स्तवा᳚नाः ॥
यच्छ᳚न्तु । च॒न्द्राः । उ॒प॒॑मम् । नः॒ । अ॒र्कम् । आ । नः॒ । काम᳚म् । पू॒पु॒र॒न्तु॒ । स्तवा᳚नाः ॥
सायणभाष्यम् (Sayana Commentary)
नोस्मभ्यं शुरुधः शुचेर्दुःखस्य प्रतिरोद्धारः ऋतावानः सत्यवन्तोवरुणादयः सहस्रं सहस्रसंख्याकं धनं विरदन्तु वितरन्तु अथवा शुरुध- उक्तलक्षणाः सहस्रसङ्ख्याकाः ओषधीरदन्तु । किञ्च ते चन्द्राः आह्लादकारिणो नोस्मभ्यं उपमं स्तुत्यं अर्कमर्चनीयं यच्छन्तु । किंच स्तवाना अस्माभिः स्तूयमानानोस्माकं काममपेक्षितं पूपुरन्तु पूरयन्तु । हे सूर्य त्वया अनुज्ञाताइति सूर्यस्य स्तुतिः ॥ ३ ॥