श्रवणम्

7.62.5 समानपद
प्र बा॒हवा᳚ सिसृतं जी॒वसे᳚ न॒ आ नो॒ गव्यू᳚तिमुक्षतं घृ॒तेन᳚ ।
आ नो॒ जने᳚ श्रवयतं युवाना श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मा ॥
▶ पदपाठः (Word-by-word)
प्र । बा॒हवा᳚ । सि॒सृ॒त॒म् । जी॒वसे᳚ । नः॒ । आ । नः॒ । गव्यू᳚तिम् । उ॒क्ष॒त॒म् । घृ॒तेन᳚ ।
आ । नः॒ । जने᳚ । श्र॒व॒य॒त॒म् । यु॒वा॒ना॒ । श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा᳚ । इ॒मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणा मित्रावरुणौ देवौ बाहवा युवाभ्यां बाहू प्रसिसृतं प्रसारयतं हविः स्वीकाराय धनप्रदानायवा । किमर्थमिति नोजीवसे अस्माकं जीवनाय किञ्च नोस्माकं गव्यूतिं गावोयन्ति गच्छंति अत्रेति गव्यूतिर्गोमार्गभूमिः तां तृणादिप्ररोहाय घृतेनोदकेन आसमन्तात् उक्षतं सिञ्चतं किञ्च नोस्मान् जने अस्मत्समाने मनुष्यसमूहे वा नोस्मान् आश्रवयतं विश्रुतं कुरुतम् । हे युवाना नित्ययौवनौ सर्वत्रव्याप्तौ वा युवां मे मम इमा इमानि हवा आह्वानानि श्रुतं श्रृणुतम् ॥ ५ ॥