स सू᳚र्य॒ प्रति᳚ पु॒रो न॒ उद्गा᳚ ए॒भिः स्तोमे᳚भिरेत॒शेभि॒रेवै᳚ः ।
प्र नो᳚ मि॒त्राय॒ वरु᳚णाय वो॒चो॑ना᳚गसो अर्य॒म्णे अ॒ग्नये᳚ च ॥
प्र नो᳚ मि॒त्राय॒ वरु᳚णाय वो॒चो॑ना᳚गसो अर्य॒म्णे अ॒ग्नये᳚ च ॥
पदपाठः (Word-by-word)
सः । सू॒र्य॒ । प्रति᳚ । पु॒रः । नः॒ । उत् । गाः॒ । ए॒भिः । स्तोमे᳚भिः । ए॒त॒शेभिः᳚ । एवैः᳚ ।
प्र । नः॒ । मि॒त्राय᳚ । वरु᳚णाय । वो॒चः॒ । अना᳚गसः । अ॒र्य॒म्णे । अ॒ग्नये᳚ । च॒ ॥
प्र । नः॒ । मि॒त्राय᳚ । वरु᳚णाय । वो॒चः॒ । अना᳚गसः । अ॒र्य॒म्णे । अ॒ग्नये᳚ । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सूर्य सः प्रसिद्धस्त्वं नोस्मान् प्रति पुरः पुरस्तात् उद्गाः उद्गच्छ कैः सधनैः एभिः स्तोमेभिः स्तोमैः स्तुत्यैः एतशेभिः एतवर्णैः स्वार्थिकः शकारः । या जरन्ता युवशा ता । पुरुषः कृष्णशवास्युत्तरतइत्यादिवत् । तादृशैः एवैर्गमनशीलैरश्वैरुद्गाः अथ तथा कृत्वा अस्माभिः स्तुतः सन् नोस्मान् अनागसः अपापान् प्रवोचः केभ्यः मित्राय वरुणायार्यम्णे अग्नये च । अत्र सौर्ये इतरेषां मित्रादीनां संकीर्तनं तेषामपि निपातभाक् त्वादविरुद्धं एवंपूर्वोत्तरत्रच मैत्रावरुणेर्यमादीनांसंकीर्तनमपि न विरुध्यते ॥ २ ॥